| YouTube Channel

माययिता-त्री (mAyayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मय गतौ”@} 2 मायकः-यिका, मायकः-यिका, मिमयिषकः-षिका, मामयकः-यिका
मयिता-त्री, माययिता-त्री, मिमयिषिता-त्री, मामयिता-त्री
3 प्रमत्-प्रमतौ-प्रमतः, 4 मयिता, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिक- चयतिवत् 5 ज्ञेयानि।
ल्यपि- 6 प्रमय्य इति।
प्रासङ्गिक्यः
01
=>
(१२२३)
02
=>
(१-भ्वादिः-४७७। सक। सेट्। आत्म।)
03
=>
[[२। क्विपि ‘लोपो व्योर्वलि’ (६-१-६६) इति यकारलोपे ‘ह्रस्वस्य पिति--’ (६-१-७१) इति तुकि रूपमेवम्।]]
04
=>
[[३। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति प्राप्तस्य युचः, ‘न यः’ (३-२-१५२) इति निषेधात् ‘तृन्’ (३-२-१३५) इत्यौत्सर्गिकस्तृन्नेव।]]
05
=>
(५०२)
06
=>
[[B। ‘पयः प्रदोहादिरताः प्रमय्य तं प्रैक्षन्त नूत्नाचयितं कुतूहलात्।।’ धा। का। १। ६१।]]
1 {@“मी गतौ”@} 2 उभ।) आधृषीयः।
‘--गतौ, मनने’ इति क्षीरस्वामी।
‘मीञो मीनाति मीनीते हिंसायां मीयते ङितः।।
मिनोति मिनुते स्वादेः, गतौ मयति माययेत्।’ 3 इति देवः।
मायकः-यिका, मिमाययिषकः-षिका, मायकः-यिका, 4 मिमीषकः-षिका, 5 मेमीयकः-यिका
माययिता-त्री, मिमाययिषिता-त्री, 6 मेता-त्री, मिमीषिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि ण्यन्तात् ण्यन्तप्रकृतिकसन्नन्ताच्च गोमयतिवत् 7 ज्ञेयानि।
आधृषीयत्वेन णिज्वि- कल्पः।
तेन णिजभावपक्षे शुद्धात्, शुद्धप्रकृतिकसन्नन्तात्, शुद्धप्रकृतिक- यङन्ताच्च भौवादिकनयतिवत् 8 सर्वाण्यपि रूपाणि 9 ज्ञेयानि।
णिजभावपक्षे तु--शतरि-- 10 मयन्-न्ती इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१२६७)
02
=>
(१०-चुरादिः-१८२५। सक। सेट्। (अनि।)
03
=>
(श्लो। १६-१७)
04
=>
[[६। ‘सनि मीमा--’ (७-४-५४) इत्यत्र अचौरादिकैर्धातुभिः सह साहचर्यात् नास्य ग्रहणम्। अतोऽत्र ‘इस्’ भावादिकमित्यतः, ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्, ‘अज्झनगमां सनि’ (६-४-१६) इत्यनेन (पर्जन्यन्यायेन) दीर्घः। ‘श्विडीङिवर्णेष्वथ शीङ्श्रियावपि’ (व्याघ्रभूतिकारिका, भाष्ये, ७-२-१०) इति नियमाण्णिजभावपक्षे इडागमो नेत्यादिकं यथायथमूह्यम्।]]
05
=>
[पृष्ठम्१०३०+ २८]
06
=>
[[१। शुद्धे तृजन्ते इडभावात् गुणे रूपमेवम्।]]
07
=>
(४३३)
08
=>
(६८०)
09
=>
(नयतेः प्रातिस्वि- करूपाणि विना)
10
=>
[[२। णिजन्तस्थले धातोरस्योभयपदित्वेऽपि णिजभावपक्षे आत्मनेपदप्रवृत्तिनिमित्ताभा- वात्, ‘शेषात् कर्तरि--’ (१-३-७८) इति परस्मैपदं शतेति ज्ञेयम्।]]
1 {@“मीङ् हिंसायाम्”@} 2 ‘मीञो मीनाति मीनीते, हिंसायां मीयते ङितः।।’ 3 4 मित्सकः-त्सिका, मेमीयकः-यिका
मेता-त्री, माययिता-त्री, मिमीषिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्षयतिवत् 5 ज्ञेयानि।
शतरि मीयन्-न्ती-ती इति रूपमिति विशेषः।
6
प्रासङ्गिक्यः
01
=>
(१२६८)
02
=>
(४-दिवादिः-११३७। सक। अनि। आत्म।)
03
=>
(श्लो। १६)
04
=>
[इति देवः। ‘हिंसाऽत्र मृतिः।’ इति धा। का। व्याख्यायाम् (२। ५८)। मायकः-यिका, मायकः-यिका, मिमीषकः-षिका, [[३। ‘सनि मीमा--’ (७-४-५४) इत्यत्र मीनातिमिनोत्योरुभयोरपि ‘मी’ इत्यनेन ग्रहणम्-इति वृत्तिकारः। तेन नास्य ‘मी’ इत्यनेन ग्रहणमिति ज्ञायते। काश्यप- क्षीरस्वामि-वर्धमानप्रभृतयस्तु धातोरस्यापि तत्र ग्रहणमिति कृत्वा, इस्भावे, अभ्यासलोपादिके, सकारस्य तकारे कृते ‘मित्सते’ इति सन्नन्ते रूपं प्रदर्शय- न्ति। “लाक्षणिकमीरूपस्य मिनोतेः अग्रहणशङ्कापनोदनपरा वृत्तिः
\n\n त्वस्याग्र- हणपरा।” इति तेषामुपपादनं माधवधातुवृत्तिप्रतिपादितमिहानुसन्धेयम्। वस्तुतस्तु ‘इको झल्’ (१-२-९) इत्यत्र, ‘मीनातिमिनोत्योः--’ इति भाष्यो- क्त्या, ‘सनि मीमा--’ (७-४-५४) इत्यत्र मीनातिमिनोत्योर्द्वयोरेव ग्रहणं न्याय्यम्
\n\n अन्यथा निरुक्तभाष्यस्योपलक्षणत्वापत्तेः। अस्य धातोरपि ग्रहणे उपलक्षकत्व- कल्पनायां प्रमाणाभावाच्चेत्यलम्। अन्यत्र विस्तरः।]]
05
=>
(३०२)
06
=>
[पृष्ठम्१०३१+ २८]
1 {@“मेङ् प्रणिदाने”@} 2 ‘मिमीते मायते माने, माति तत्रैव शब्लुकि।
मयते प्रणिदानेऽर्थे…।।’ 3 इति देवः।
“प्रणिदानम् = विनिमयः।
‘प्रत्यर्पणम्’ इत्यपरे।” इति मा।
धा।
वृत्तिः।
“--प्रतिदाने-इति काशकृत्स्नः।
तथैव कातन्त्रे, चान्द्रे च।
‘प्रणिधाने’ इति पाठान्तरम्।” इति क्षी।
टीका।
मायकः-यिका, मापकः-पिका, मित्सकः-त्सिका, मेमीयकः-यिका
माता- मात्री, माययिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकमातिवत् 4 ज्ञेयानि।
शानचि- 5 मयमानः- प्रणिप्रयमानः, 6 अपमित्य, 7 अपमाय वा याचते।
याचित्वा अपमयते।
8 9 धान्यमायः, इतीमानि रूपाण्यस्माद् भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१३१४)
02
=>
(१-भ्वादिः-९६१। सक। अनि। आत्म।)
03
=>
(श्लो। ९)
04
=>
(१२४०)
05
=>
[[४। शानचि, शपि अयादेशे रूपमेवम्। ‘--अशिति’ (६-१-४५) इत्युक्तत्वात् आत्वं नेति ज्ञेयम्। प्रणिमयमानः इत्यत्र ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
06
=>
[[५। अपपूर्वकादस्मात्, ‘उदीचां माङो व्यतीहारे’ (३-४-१९) इति क्त्वाप्रत्यये, तस्य सामासिके ल्यपि, ‘मयतेरिदन्यतरस्याम्’ (६-४-७०) इति इकारेऽन्तादेशे अपमित्य इति रूपम्। पक्षे अपमाय इति च। अपूर्वकालार्थं वचनमिदम्। अत्र (३-४-१९) ‘उदीचाम्’ इत्युक्तत्वात्, प्राचां मते तु ‘याचित्वाऽपमयते’ इत्यपि प्रयोगः साधुः। ‘उदीचाम्--’ (३-४-१९) इति सूत्रे ‘माङ्’ इति, मेङः कृतात्वस्य निर्देश इति ‘दाधा ध्वदाप्’ (१-१-२०) सूत्रे भाष्ये स्पष्टम्।]]
07
=>
[[आ। ‘अपमित्य तपोवित्तैरस्या भागं भगीरथः।’ सुभद्राहरणे।]]
08
=>
[पृष्ठम्१०५७+ २८]
09
=>
[[१। कर्मणि उपपदे आदन्तलक्षणं कप्रत्ययं बाधित्वा, ‘ह्वावामश्च’ (३-२-२) इत्यण्। आत्वे कृते, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः।]]