| YouTube Channel

मामार्गकः-र्गिका (mAmArgakaH-rgikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मार्ग अन्वेषणे”@} 2 ‘अन्वेषणेऽर्थे मृगयेत णौ यो मार्गेर्भवेन्मार्गति मार्गयेच्च।।’ 3 इति देवः।
आधृषीयत्वादस्य धातोर्णिज्विकल्पः।
णिजभावपक्षे धातोरस्य भौवादिकत्वमिति ज्ञेयम्।
मार्गकः-र्गिका, मिमार्गयिषकः-षिका, मार्गकः-र्गिका, मिमार्गिषकः- षिका, मामार्गकः-र्गिका
मार्गयिता-त्री, मिमार्गयिषिता-त्री, मार्गिता-त्री, मिमार्गिषिता-त्री, मामार्गिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- चर्पयतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२४८)
02
=>
(१०-चुरादिः-१८४७। सक। सेट्। उभ। आधृषीयः)
03
=>
(श्लो। ४४)
04
=>
(५५४)