| YouTube Channel

मामन्दिता-त्री (mAmanditA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु”@} 2 ‘स्तुत्यादौ मन्दते, हर्षे माद्येत्, मादयते णिचि।।’ 3 इति देवः।
“मोदो = हर्षः, मदो = गर्वः, स्वप्नः = आलस्यम्।
चन्द्रस्तु ‘मदि जाड्ये’ इत्येव पपाठ।
स्तुतिगतिभ्यामन्यत्राकर्मकः।” इति मा।
धा।
वृत्तिः।
‘स्वप्नेनालस्यमपि लक्ष्यते।’ इति क्षीरस्वामी।
धातोरस्य कान्त्यर्थकत्वं केषाञ्चिदसम्मतम्।
मन्दकः-न्दिका, मन्दकः-न्दिका, मिमन्दिषकः-षिका, मामन्दकः-न्दिका
मन्दिता-त्री, मन्दयिता-त्री, मिमन्दिषिता-त्री, मामन्दिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि भौवादिककन्दतिवत् 4 ज्ञेयानि।
5 मन्दनः, इदमेषां 6 मन्दितम्, 7 इत्युरच्प्रत्ययः।
मन्दन्तेऽस्यां वाजिन इति मन्दुरा = वाजिशाला।]] मन्दुरा, 8 मन्दिरम्, 9 मन्द्रः, 10 मन्दारः, 11 मन्दाकः।
प्रासङ्गिक्यः
01
=>
(१२१५)
02
=>
(१-भ्वादिः-१३। अक। सेट्। आत्म।)
03
=>
(श्लो। ११२)
04
=>
(१६३)
05
=>
[[१। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिके युचि रूपमेवम्।]]
06
=>
[[२। ‘क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति गत्यर्थकत्वात्, अकर्मकत्वाच्च अधिकरणे क्तप्रत्ययः।]]
07
=>
[[३। ‘मन्दिवाशि--’ [द। उ। ८-२१]
08
=>
[[४। ‘इषिमदिमुदिखिदिच्छिदिभिदिमन्दि--’ (द। उ। ८-२६) इति किरच्प्रत्यये रूपमेवम्। मन्दिरम् = आलयः।]]
09
=>
[[५। ‘स्फायितञ्चि--’ (द। उ। ८-३१) इत्यादिना रक्प्रत्यये रूपमेवम्। मन्द्रः = मधुरस्वरः, मन्दगतिश्च।]]
10
=>
[[६। ‘अङ्गिमदिमन्दिभ्यः--’ (द। उ। ८-६४) इत्यारन्प्रत्यये रूपमेवम्। मन्दारः = देववृक्षविशेषः।]]
11
=>
[[७। बाहुलकादौणादिके आकन्प्रत्यये रूपमेवम्। मन्दाकशब्दात् मत्वर्थीये इनिप्रत्यये मन्दाकिनी इति सिद्ध्यति। मन्दाकिनी = नदीविशेषः।]]