| YouTube Channel

मामन्थकः-न्थिका (mAmanthakaH-nthikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मथि हिंसासंक्लेशनयोः”@} 2 ‘मन्थ--’ इति क्षीरस्वामी।
‘हिंसासंक्लेशयोर्मन्थेत् मथेन्मथ्नाति लोडने।’ 3 इति देवः।
मन्थकः-न्थिका, मन्थकः-न्थिका, मिमन्थिषकः-षिका, मामन्थकः-न्थिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुन्थतिवत् 4 ज्ञेयानि।
सन्नन्तादुप्रत्यये- 5 मिमन्थिषुः, 6 खड्गोपमन्थम्-खड्गेनोपमन्थम् वा शत्रुं मारयति, खड्गेनोपमन्थ्य वा।
7 मन्थी 8।
9
प्रासङ्गिक्यः
01
=>
(१२१२)
02
=>
(१-भ्वादिः-४६। सक। सेट्। पर।)
03
=>
(श्लो। ९८)
04
=>
(२२०)
05
=>
[[आ। ‘स भोजराडद्य हरिं मिमन्थिषुः प्रमान्थनं सेधतु को निषेत्स्यति?।।’ धा। का। १। ७।]]
06
=>
[[५। ‘हिंसार्थानां समानकर्मकाणाम्’ (३-४-४८) इति णमुल्। अत्रानुप्रयोगधातुना मारयतिना समानकर्मकत्वादस्य धातोर्णमुल् इति ज्ञेयम्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समासविकल्पः। वासरूपन्यायेन क्त्वाऽप्यत्र ज्ञेयः। तेन ल्य- बन्तस्यापि प्रयोगः प्रदर्शितः।]]
07
=>
[[६। ग्रह्यादित्वात् (३-१-१३४) कर्तरि णिनिप्रत्यये रूपमेवम्। ग्रह्यादिराकृतिगणः।]]
08
=>
[[B। ‘परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्।’ भ। का। ६। ७५।]]
09
=>
[पृष्ठम्०९९४+ २८]