| YouTube Channel

मामज्जनीयम् (mAmajjanIyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“टु मस्जो शुद्धौ”@} 2 ‘शुद्ध्या स्नानम्, व्रुडनं लक्ष्यते।’ इति क्षीरस्वामी।
व्रुडनम् = संवरणम्।
3 मज्जकः-ज्जिका, मज्जकः-ज्जिका, 4 मिमङ्क्षकः-क्षिका, मामज्जकः-ज्जिका
5 मङ्क्ता-मङूक्त्री, मज्जयिता-त्री, मिमङ्क्षिता-त्री, मामज्जिता-त्री
6 मज्जन्-ती, मज्जयन्-न्ती, मिमङ्क्षन्-न्ती
-- मङ्क्ष्यन्-न्ती-ती, मज्जयिष्यन्-न्ती-ती, मिमङ्क्षिष्यन्-न्ती-ती
-- -- 7 मज्जयमानः, -- मामज्ज्यमानः
-- मज्जयिष्यमाणः, -- मामज्जिष्यमाणः
8 सुमक्-सुमग्-सुमज्जौ-सुमज्जः
-- -- -- 9 मग्नः-मग्नवान्, मज्जितः, मिमङ्क्षितः, मामज्जितः-तवान्
मज्जः, मज्जः, मिमङूक्षुः, मामज्जः
मङ्क्तव्यम्, मज्जयितव्यम्, मिमङ्क्षितव्यम्, मामज्जितव्यम्
मज्जनीयम्, मज्जनीयम्, मिमङ्क्षणीयम्, मामज्जनीयम्
10 11 मद्ग्यम्-मद्ग्यः, मज्ज्यम्, मिमङ्क्ष्यम्, मामज्ज्यम्
ईषन्मज्जः-दुर्मज्जः-सुमज्जः
-- -- -- मज्ज्यमानः, मज्ज्यमानः, मिमङ्क्ष्यमाणः, मामज्ज्यमानः
मद्गः, 12 मज्जथुः 13 मज्जः, मिमङ्क्षः, मामज्जः
मङ्क्तुम्, मज्जयितुम्, मिमङ्क्षितुम्, मामज्जितुम्
14 मज्जा, मज्जना, मिमङ्क्षा, मामज्जा
मज्जनम्, मज्जनम्, मिमङ्क्षणम्, मामज्जनम्
15 मङ्क्त्वा 16 -मक्त्वा, मज्जयित्वा, मिमङ्क्षित्वा, मामज्जित्वा
प्रमज्ज्य, प्रमज्ज्य, प्रमिमङ्क्ष्य, प्रमामज्ज्य
मज्जम् मङ्क्त्वा मक्त्वा मज्जम् मज्जयित्वा मिमङ्क्षम् मिमङ्क्षित्वा मामज्जम्
मामज्जित्वा
17 मद्गुः, 18 मज्जा-मज्ज नौ-मज्जनः, 19 मञ्जूषा, 20 मद्गुरः।
21
प्रासङ्गिक्यः
01
=>
(१२३५)
02
=>
(६-तुदादिः-१४१५। अक। अनि। पर।)
03
=>
[[१। ण्वुलि, ‘झलां जश् झशि’ (८-४-५३) इति सकारस्य दकारे, तस्य श्चुत्वेन जकारः। एवमेव ण्यन्तेषु, यङन्तेषु, शुद्धे अजादिप्रत्ययेषु रूपनिष्पत्तिरिति ज्ञेयम्।]]
04
=>
[[२। सन्नन्तात् ण्वुलि, धातोरनिट्त्वेन झलादिप्रत्ययपरकत्वात्, ‘मस्जिनशोर्झलि’ (७-१-६०) इति नुमागमः। अत्र ‘मिदचोऽन्त्यात् परः’ (१-१-४७) इति नियमं बाधित्वा, ‘मस्जेरन्त्यात् पूर्वं नुममिच्छन्ति अनुषङ्गादिलोपार्थम्’ (वा। १-१-४७) इति भाष्याद्युक्तप्रकारेण धातुजकारात् पूर्वं नुम्। तेन सकारस्य संयोगादिलोपे, कुत्वे रूपमेवम्। एवमेव सन्नन्ते सर्वत्र प्रक्रियोह्या।]]
05
=>
[[३। तृचि अन्त्यात् पूर्वं नुमि, ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इति संयोगादिलोपे रूपमेवम्। एवमेव तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[[४। शतरि, तुदादित्वात् शपोऽपवादत्वेन शप्रत्यये जश्त्वश्चुत्वयो रूपमेवम्।]]
07
=>
[[५। शुद्धेश्चेतनकर्तृकत्वे, ण्यन्तात्, ‘अणावकर्मकात्--’ (१-३-८८) इति परस्मैपदमेव। अचित्तवत्कर्तृकत्वे तु आत्मनेपदमपीत्यतोऽत्रात्मनेपदम्।]]
08
=>
[[६। क्विपि, संयोगादिलोपे, जकारस्य कुत्वे रूपमेवम्।]]
09
=>
[[७। निष्ठायाम्, ‘मस्जिनशोः--’ (७-१-६०) इति नुमि, सकारस्य संयोगादिलोपे, नुमो नकारस्य ‘अनिदिताम्--’ (६-४-२४) इति लोपे, ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे, नत्वस्यासिद्धत्वेन झल्परकत्वात् ‘चोः कुः’ (८-२-३०) इति कुत्वे रूपमेवम्।]]
10
=>
[पृष्ठम्१०११+ २८]
11
=>
[[१। ण्यति, ‘चजोः कु घिण्णयतोः’ (७-३-५२) इति धातुजकारस्य कुत्वे सकारस्य जश्त्वेन दकारे रूपमेवम्। घञ्यप्येवमेव रूपनिष्पत्तिरिति ज्ञेयम्।]]
12
=>
[[२। भावे, ‘ट्वितोऽथुच्’ (३-३-८९) इत्यथुच्प्रत्यये रूपमेवम्।]]
13
=>
[[आ। ‘तल्पे कान्तान्तरैः सार्धं मन्येऽहं धिङ् निमज्जथुम्।।’ भ। का। ५। २०।]]
14
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्यये रूपमेवम्। केचित्तु क्तिनि, नुमि नलोपे मक्तिरिति साधयन्ति। ‘प्रसज्य चापवादविषयं तत उत्सर्गोऽभिनिवि- शते’ (परि। ६५) इति न्यायानुसरणे तु मज्जा इत्यकारप्रत्ययान्तं रूपमेव न्याय्य- मिति प्रतिभाति।]]
15
=>
[[४। क्त्वाप्रत्यये, ‘जान्तनशां विभाषा’ (६-४-३२) इत्यनुनासिकलोपनिषेधविकल्पः। निषेधविकल्पे विधिविकल्पपर्यवसानात् अनुनासिकलोपो विभाषा भवतीति ज्ञेयम्। तेन रूपद्वयम्।]]
16
=>
[[B। ‘अध्यास्त यं नक्रकुलं स्थवीयो द्विपोऽप्यमङ्क्त्वा यमुत्ततार।’ वा। वि। ३। ३८।]]
17
=>
[[५। ‘भृमृशीतॄचरित्सरितनिमिमस्जिभ्य उः’ (द। उ-१-९२) इत्युप्रत्यये रूपमेवम्। मज्जत्यम्भसीति मद्गुः = जलपक्षिविशेषः। न्यङ्क्वादि (७-३-५३) पाठात् जकारस्य कुत्वेन गकारः।]]
18
=>
[[६। ‘श्वन्नुक्षन्--’ (द। उ। ६-५५) इत्यादिना कनिन्प्रत्यये रूपमेवम्। मज्जत्यस्थिष्विति मज्जा = अस्थ्यन्तसारः। नकारान्तोऽयं शब्दः।]]
19
=>
[[७। ‘मस्जेर्नुम् च’ (द। उ। ९-१८) इत्यूषन्प्रत्यये, नुभागमे रूपमेवम्। मज्जत्यस्या- मिति मञ्जूषा = पेटिका।]]
20
=>
[[८। बाहुलकादौणादिकेऽरप्रत्यये न्यङ्क्वादित्वात् (७-३-५३) कुत्वे रूपम्। मद्गुरः = जलपक्षिविशेषः।]]
21
=>
[पृष्ठम्१०१२+ २८]