| YouTube Channel

मान्थकः-न्थिका (mAnthakaH-nthikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मान्थ हिंसासंक्लेशनयोः”@} 2 “-- ‘मथि--’ इत्यपि दौर्गाः” इति क्षीरस्वामी।
सिद्धान्तकौमुद्यादिषु, धातुरयं पठ्यते।
‘हिंसा = प्राण्युपघातः, संक्लेशः = बाधा।’ इति क्षीरस्वामी।
मान्थकः-न्थिका, मान्थकः-न्थिका, मिमान्थिषकः-षिका, 3 मामाथकः-थिका
मान्थिता-त्री, मान्थयिता-त्री, मिमान्थिषिता-त्री, मामाथिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि क्रैयादिककुथ्नातिवत् 4 ज्ञेयानि।
5न्थित्वा इत्येकमेव रूपमिति ज्ञेयम्।]] मान्थित्वा-माथित्वा, 6 प्रमान्थनम्।
प्रासङ्गिक्यः
01
=>
(१२४६)
02
=>
(१-भ्वादिः-४६। सक। सेट्। पर।)
03
=>
[[१। यङन्ते सर्वत्र यङ्निमित्तकः, ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारलोपः। क्षीरस्वाम्युपात्तदौर्गमते तु धातोरिदित्त्वात् नोपधानकारलोपस्य प्रसक्तिः, तदानीम्, मामान्थकः-न्थिका, मामान्थिता-त्री, इत्यादीनि रूपाणि यथायथमूह्यानि।]]
04
=>
(२२३)
05
=>
[[२। क्त्वायाम्, ‘नोपधात् थफान्ताद् वा’ (१-२-२३) इति कित्त्वविकल्पनाद् उपधानकारलोपपक्षे माथित्वा इति, तदभावपक्षे मान्थित्वा इति रूपद्वयम्। दौर्गमते तु मा[म]
06
=>
[[आ। ‘स भोजराडद्य हरिं मिमन्थिषुः प्रमान्थनं सेधतु, को निषेत्स्यति।।’ धा। का। १-७।]]