मानसं (mAnasaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiमन की
शब्दकल्पद्रुमः
Sanskritमानसं, (मन एव । मनस् “प्रज्ञादिभ्यश्च ।”५ । ४ । ३८ । इति स्वार्थे अण् ।) मनः । इत्य-मरः । १ । ४ । ३१ ॥
(यथा, मार्कण्डेये । १५ । ६१ ।“यज्ञदानतपांसीह परत्र च न भूतये ।भवन्ति तस्य यस्यार्त्तपरित्राणे न मानसम् ॥
”)तस्य गुणा यथा, --“परापरत्वं संख्याद्याः पञ्च वेगश्च मानसे ।”इति भाषापरिच्छेदः ॥
(मनसि भवो जातो वा । मनस् + अण् ।)मनोभवे, त्रि । यथा, सङ्कल्पः कर्म्ममानसम् ॥
इत्यमरः । १ । ५ । २ ॥
“विषयेष्वतिसंरागो मानसो मल उच्यते ।”इत्येकादशीतत्त्वम् ॥
“अनूढानङ्गपीडेव ममेयं मानसी व्यथा ॥
”इति प्राञ्चः ॥
मानसतापो यथा, --“कामक्रोधभयद्वेषलोभमोहविषादजः ।शोकासूयावमानेर्ष्या मात्सर्य्यादिभयन्तथा ॥
मानसोऽपि द्बिजश्रेष्ठ ! तापो भवति नैकधा ॥
”इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥
त्रिविधमानसकर्म्म । यथा, --“परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम् ॥
”इति तिथ्यादितत्त्वम् ॥
मानसरोगा यथा, --कामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्य-विषादेर्ष्यासूयामात्सर्य्यप्रभृतयः । अथवा ।उन्मादापस्मारमूर्च्छाभ्रमतमःसंन्यासप्रभृतयः ।इति भावप्रकाशः ॥
* ॥
(मनसा सङ्कल्पेन कृत-मित्यण् ।) सरोवरविशेषः । इति मेदिनी ।से, ३१ ॥
स च कैलासे ब्रह्मणा निर्म्मितः ।यथा, --“कैलासश्चापि दुष्कम्पो दानवेन्द्रेण कम्पितः ।यक्षराक्षसगन्धर्व्वैर्नित्यं सेवितकन्दरः ॥
श्रीमान्मनोहरश्चैव नित्यं पुष्पितपादपः ।हेमपुष्करसंछन्नं तेन वैखानसं सरः ॥
कम्पितं मानसञ्चैव राजहंसनिषेवितम् ॥
”इति महाभारते हरिवंशे नारसिंहे २२८ अः ॥
अपि च ।“कैलासपर्व्वते राम ! मनसा निर्म्मितं परम् ।ब्रह्मणा नरशार्दूल ! तेनेदं मानसं सरः ॥
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ।सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥
”इति रामायणे आदिकाण्डे २४ सर्गः ॥
* ॥
(पुं, नागविशेषः । यथा, महाभारते । १ । ५७ । १६ ।“अमाहठः कामठकः सुषेणो मानसो व्ययः ।”शाल्मलीद्वीपस्य वर्षविशेषः । यथा, मात्स्ये ।५३ । २३ ।“श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।वैद्यतो मानसश्चैव केतुमान् सप्तमस्तथा ॥
”पुष्करद्वीपस्थपर्व्वतविशेषः । यथा, मात्स्ये ।“द्वीपार्द्धस्य परिक्षिप्तः पश्चिमे मानसो गिरिः ।”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
