| YouTube Channel

मानवौघः (mAnavaughaH)

 
शब्दकल्पद्रुमः
Sanskrit
मानवौघः,
पुं,
(मानवानां ओघः यस्मिन् ।) तारा-विद्यायाः पीठस्य उत्तरे वायव्यादीशपर्य्यन्तंपूज्यगुरुपङ्क्तिविशेषः यथा तारावत्यम्बभानु-मत्यम्बजयाम्बविद्याम्बमहोदर्य्यम्बसुखानन्दनाथ-परानन्दनाथपारिजातानन्दनाथकुलेश्वरानन्द-नाथविरूपाक्षानन्दनाथफेरव्यम्बाः पूजयेत् ।एते मानवौघाः तथा तन्त्रे ।“अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् ।ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः
दिव्यौघाः सिद्धिदा वत्स ! सिद्धौघान् शृणुयत्नतः ।वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः
हरिनाथो मानवौघान शृण वक्ष्यामि तद्-गुरून् ।तारावती भानुमती जयाविद्या महोदरी
सुखानन्दः परानन्दः पारिजातः कुलेश्वरः ।विरूपाक्षः फेरवी कथितं तारिणीकुलम्
आनन्दनाथशब्दान्ता गुरुवः सर्व्वसिद्धिदाः ।स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परिकी-र्त्तिताः
”इति तन्त्रसारः