| YouTube Channel

मानकं (mAnakaM)

 
शब्दकल्पद्रुमः
Sanskrit
मानकं,
क्ली,
पुं,
(मानं बृहत्परिमाणमस्य ।“शेषाद्विभाषा ।” १५४ इतिकप् ।) माणकम् माणकचु इति भाषा ।“कच्वीतु पिच्छिला प्रोक्ता विस्तीर्णपर्णमानके ।”इति शब्दचन्द्रिका
“स्थलकन्दो ग्राम्यकन्दः स्थलपद्मस्तु मानकः ।”इति रत्नमाला
अस्य गुणाः ।“मानकं स्वादु शीतञ्च गुरु शोथहरं कटु ।”इति राजवल्लभः
अपि ।“मानकः स्यान्महापत्रः कथ्यते तद्गुणा अथ ।मानकः शोथहृच्छीतः पित्तरक्तहरो लघुः
”इति भावप्रकाशः
(विषयोऽस्य यथा, --“पुराणं मानकं पिष्ट्वा द्विगुणीकृततण्डुलम् ।साधितं क्षीरतोयाभ्यामभ्यसेत् पायसन्तु तत्
हन्तुं वातोदरं शोथं ग्रहणीं पाण्डुतामपि ।सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः
”इति वैद्यकचक्रपाणिसंग्रह उदराधिकारे
)