| YouTube Channel

माध्वीकं (mAdhvIkaM)

 
Apte 1890
English
माध्वीकं [मधुना मधूकपुऽपेण निर्वृत्तं ईकक्] 1 A kind of spirituous liquor, distilled from the flowers of the tree called Madhūka
चचाम मधु माध्वीकं Bk. 14. 94.
2 Wine distilled from grapes
साध्वी माध्वीक चिंता भवति भवतः Gīt. 12 (= मधो Com.).
3 A grape.
Comp.
फलं a kind of cocoa-nut.
शब्दकल्पद्रुमः
Sanskrit
माध्वीकं,
क्ली,
(माध्वी + स्वार्थे कन् ।) मधूक-पुष्पकृतमद्यम् तत्पर्य्यायः मध्वासवः २माधवकः मधु इत्यमरः १० ४१
मधुमाध्वीकमित्येकं नामेति केचित्
पूर्व्वौद्बौ पुष्पमद्ये (यथा, महाभारते ।२७७ ३९ ।“कथं हि पीत्वा माध्वीकं पीत्वा मधुमाध-वीम् ।लोभं सौवीरके कुर्य्यान्नारी काचिदिति स्मरे
”)परौ द्वौ द्राक्षाविकारे इति भरतः
माद्दींक-मिति वा पाठः इति रमानाथः माध्वीक-स्थाने माध्वकमिति भानुदीक्षितः
(मधु ।यथा, नैषधे १९ ३३ ।“धयतु नलिने माध्वीकं वा वाऽभिनवागतः ।कुमुदमकरन्दौघैः कुक्षिम्भरिर्भ्रमरोत्करः ।इह तु लिहते रात्रीतर्षं रथाङ्गविहङ्गमामधु निजबधूवक्त्राम्भोजेऽधुनाऽधरनामकम्
”“माध्वीकं मकरन्दम् इति तट्टीकायां नारा-यणः
) तत्पर्य्यायो यथा, --“मधुमाक्षीकमाध्वीकक्षौद्रसारध्यमीरितम् ।मक्षिकावरटीभृङ्गवातपुष्परसोद्भवम्
”इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
)