| YouTube Channel

माध्यन्दिनं (mAdhyandinaM)

 
शब्दकल्पद्रुमः
Sanskrit
माध्यन्दिनं, त्रि, (मध्ये भवम् मध्य + “अन्तः-पूर्व्वपदात् ठञ् ।” ६० इत्यत्रकाशिकासूत्रवृत्तौ “मध्योमध्यं दिनण् चास्मात् ।”इति दिनण् ।) मध्यमम् इति हेमचन्द्रः ।६ ९६
(मध्यन्दिनसम्बन्धि यथा, ऋग्वेदे ।३ २८ ।“माध्यन्दिने सवने जातवेदः पुरोडाशमिहकवे ! जुषस्व ।”“माध्यन्दिने मध्यन्दिनसम्बन्धिनि” तथा “माध्य-न्दिने मध्यं दिनस्येदमित्यर्थे उत्सादित्वादञ्ञित्वादादिवृद्धिः ञित्वादेवाद्युदात्तत्वम् ।” इतिच तद्भाष्ये सायनः
मध्यन्दिनेन प्रोक्ताधीतावा इत्यण् ङीप् शुक्लयजुर्वेदस्य शाखाभेदः ।यथा, आश्वलायनीयश्रौतसूत्रे १९ ।“पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहिसोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्रायसोमाः प्र दिवो विदाना पूर्णो अस्य कलशःस्वाहेति माध्यन्दिन्यः ।”)