| YouTube Channel

माधुर्य्यं (mAdhuryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
माधुर्य्यं,
क्ली,
(मधुरस्थ भावः : मधुर + “वर्ण-दृढाभ्यः ष्यञ् ।” १२३ इति ष्यञ् ।)मधुरस्य भावः मधुरत्वम् इति हेमचन्द्रः ।३ १७३ (यथा, सुश्रुते सूत्रस्थाने एका-दशाध्याधे ।“माधुर्य्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति
”)लावण्यम् यथा, --“रूपं किमप्यनिर्व्वाच्यं तनोर्माधुर्य्यमुच्यते ।”इत्युज्ज्वलनीलमणिः
पाञ्चालीरीतिविशिष्टकाव्यगुणः यथा, --“मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ।”इति साहित्यदर्पणे परिच्छेदः
तस्य लक्षणंयथा, साहित्यदर्पणे परिच्छेदे ।“चित्तद्रवीभावमयो ह्लादो माधुर्य्यमुच्यते ।सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात्
मूर्द्ध्नि वर्गान्त्यवर्णेन युक्ताष्ट ढान् विना ।रणौ लघु तद्व्यक्तौ वर्णाः कारणतां गताः
अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।”(नायिकानामयत्नजोऽलंकारविशेषः यथा, साहित्यदर्पणे १२९ ।“सङ्क्षोभेष्वप्यनुद्वेगो माधुर्य्यं परिकीर्त्तितम् ।”सात्त्विकनायकगुणभेदः यथा, तत्रैव ९१ ।“सर्वावस्थाविशेषेषु माधुर्य्यं रमणीयता ।”)