| YouTube Channel

मातुलुङ्गकः (mAtuluGgakaH)

 
शब्दकल्पद्रुमः
Sanskrit
मातुलुङ्गकः,
पुं,
(मातुलुङ्ग + संज्ञायां स्वार्थे वाकन् ।) छोलङ्गवृक्षः तत्पर्य्यायः फलपूरः २बीजपूरः रुचकः इत्यमरः ७८
मातुलुङ्गः श्वफलः फलपूरकः लुङ्गुषः ८पूरकः पूरः १० बीजपूर्णः ११ अम्बुकेशरः१२ छोलङ्गः १३ इति रत्नमाला
अस्यगुणाः हृद्यत्वम् अम्लत्वम् लघुत्वम् ।अग्निदीपनत्वम् आध्मानगुल्मप्लीहहृद्रोगो-दावर्त्तनाशित्वम् विबन्धहिक्काशूलच्छर्दिरोगेप्रशस्तत्वञ्च अस्य त्वग्गुणाः तिक्तत्वम् ।दुर्ज्जरत्वम् कफवातनाशित्वम् विगतरस-त्वञ्च तन्मांसगुणाः स्वादुत्वम् शीतत्वम् ।गुरुत्वम् वायुपित्तनाशित्वञ्च इति राज-वल्लभः