| YouTube Channel

माता- (mAtA-)

 
Apte
English
माता [mātā], A mother.
Apte 1890
English
माता A mother.
Monier Williams Cologne
English
1. 2. माता a, माता-दुहितृ
&c.
See col. 3.
1. माता
f.
=
मातृ (See काक- and विश्व-म्°).
2. माता
nom.
of मातृ, in comp.
Monier Williams 1872
English
माता, f. = 1. मातृ, a mother, q. v.
माता माता। See p. 764, col. 3.
Macdonell
English
माता mātā,
f.
= mātṛ, °— in some cpds.: 🞄-duhitṛ,
f.
du. mother and daughter
-pitṛ, 🞄m. du. father and mother, parents
-putra, 🞄m. mother and son
-maha,
m.
maternal 🞄grandfather: du. maternal grandparents
pl.
🞄motherʼs father, grandfather, and ancestors
🞄a. (ī) relating or belonging to the maternal 🞄grandmother: ī,
f.
maternal grandmother.
Hindi
Hindi
मां
Apte Hindi
Hindi
माता
स्त्री*
- मान् पूजायां तृच् लोपः
"माता, माँ"
Shabdartha Kaustubha
Kannada
माता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜನನಿ /ತಾಯಿ
निष्पत्तिः - > मान (पूजायाम्) - "तन्" निपा०
L R Vaidya
English
mAtA {% f. %} A mother.
Kridanta Forms
Sanskrit
मे (मे॒ङ् प्रणिदाने - भ्वादिः - अनिट्)
ल्युट् = मानम्
अनीयर् = मानीयः - मानीया
ण्वुल् = मायकः - मायिका
तुमुँन् = मातुम्
तव्य = मातव्यः - मातव्या
तृच् = माता - मात्री
क्त्वा = मित्वा
ल्यप् = प्रमाय / प्रमित्य
क्तवतुँ = मितवान् - मितवती
क्त = मितः - मिता
शानच् = मयमानः - मयमाना
मा (मा॒ माने - अदादिः - अनिट्)
ल्युट् = मानम्
अनीयर् = मानीयः - मानीया
ण्वुल् = मायकः - मायिका
तुमुँन् = मातुम्
तव्य = मातव्यः - मातव्या
तृच् = माता - मात्री
क्त्वा = मित्वा
ल्यप् = प्रमाय
क्तवतुँ = मितवान् - मितवती
क्त = मितः - मिता
शतृँ = मान् - मान्ती / माती
मा (मा॒ङ् माने शब्दे - जुहोत्यादिः - अनिट्)
ल्युट् = मानम्
अनीयर् = मानीयः - मानीया
ण्वुल् = मायकः - मायिका
तुमुँन् = मातुम्
तव्य = मातव्यः - मातव्या
तृच् = माता - मात्री
क्त्वा = मित्वा
ल्यप् = प्रमाय
क्तवतुँ = मितवान् - मितवती
क्त = मितः - मिता
शानच् = मिमानः - मिमाना
मा (मा॒ङ् माने - दिवादिः - अनिट्)
ल्युट् = मानम्
अनीयर् = मानीयः - मानीया
ण्वुल् = मायकः - मायिका
तुमुँन् = मातुम्
तव्य = मातव्यः - मातव्या
तृच् = माता - मात्री
क्त्वा = मित्वा
ल्यप् = प्रमाय
क्तवतुँ = मितवान् - मितवती
क्त = मितः - मिता
शानच् = मायमानः - मायमाना
मि (डुमि॒ञ् प्रक्षेपने - स्वादिः - अनिट्)
ल्युट् = मानम्
अनीयर् = मानीयः - मानीया
ण्वुल् = मायकः - मायिका
तुमुँन् = मातुम्
तव्य = मातव्यः - मातव्या
तृच् = माता - मात्री
क्त्वा = मित्वा
ल्यप् = प्रमाय
क्तवतुँ = मितवान् - मितवती
क्त = मितः - मिता
शतृँ = मिन्वन् - मिन्वती
शानच् = मिन्वानः - मिन्वाना
मी (मी॒ञ् हिंसायाम् बन्धने माने - क्र्यादिः - अनिट्)
ल्युट् = मानम्
अनीयर् = मानीयः - मानीया
ण्वुल् = मायकः - मायिका
तुमुँन् = मातुम्
तव्य = मातव्यः - मातव्या
तृच् = माता - मात्री
क्त्वा = मीत्वा
ल्यप् = प्रमाय
क्तवतुँ = मीतवान् - मीतवती
क्त = मीतः - मीता
शतृँ = मीनन् - मीनती
शानच् = मीनानः - मीनाना
Wordnet
Sanskrit
Synonyms:
माता, देवी
noun
एकः आदरसूचकः शब्दः यः कामपि पूज्याम् आदरणीयां वा स्त्रियं देवीं वा सम्बोधयितुं प्रयुज्यते।
"मातुः पार्वत्याः इदं मन्दिरम्।"
Synonyms:
माता, आर्या, देवी
noun
कापि पूज्या आदरणीया वा स्त्री।
"मातः भवती अत्र उपविशतु।"
Synonyms:
जटामांसी, तपस्विनी, जटा, मांसी, जटिला, लोमशा, मिसी, नलदम्, वह्निनी, पेषी, कृष्णजटा, जटी, किरातिनी, जटिला, भृतजटा, पेशी, क्रव्यादि, पिशिता, पिशी, पेशिनी, जटा, हिंसा, मांसिनी, जटाला, नलदा, मेषी, तामसी, चक्रवर्तिनी, माता, अमृतजटा, जननी, जटावती, मृगभक्ष्या, मिंसी, मिसिः, मिषिका, मिषिः
noun
औषधीयवनस्पतेः सुगन्धितं मूलम्।
"जटामांस्याः उपयोगः विभिन्नेषु औषधेषु भवति।"
Synonyms:
इन्द्रवारुणी, विशाला, ऐन्द्री, चित्रा, गवाक्षी, गजचिर्भचा, मृगेर्वारु, पिटङ्गिकी, मृगादनी, इन्द्रा, अरुणा, गवादनी, क्षुद्रसहा, इन्द्रचर्भिटी, सूर्या, विषघ्नी, गणकर्णिका, अमरा, माता, सुकर्णी, सुफला, तारका, वृषभाक्षी, पोतपुष्पा, इन्द्रवल्लरी, हेमपुष्पी, क्षुद्रफला, वारुणी, बालकप्रिया, रक्तैर्वारुः, विषलता, शक्रवल्ली, विषापहा, अमृता, विषवल्ली, चित्रफला
noun
लताविशेषः यः भेषजयुक्तः दीर्घजीवी अस्ति तथा यस्य पर्णानि ताम्बुलस्य पर्णसदृशानि सन्ति।
"इन्द्रवारुणेः पुष्पाणि पीतवर्णीयानि सन्ति तथा समूहरूपेण सन्ति।"
Synonyms:
गौः, माहेषी, सौरभेयी, उस्रा, माता, शृङ्गिणी, अर्जुनी, अघ्न्या, रोहिणी, माहेन्द्री, इज्या, धेनुः, अघ्ना, दोग्ध्री, भद्रा, भूगिमही, अनडुही, कल्याणी, पानवी, गौरी, सुरभिः, मबा, निलिनाचिः, सुरभी, अनड्वाही, अधमा, बहुला, मही, सरस्वती, उस्रिया, अही, अदितिः, इला, जगती, शर्करी
noun
ग्राम्यपशुविशेषः, यः सास्नालाङ्गुलककुदखुरविषाणी तथा तस्याः दुग्धं मनुष्याय पुष्टीकारकम् इति मन्यन्ते।
"हिन्दुधर्मीयाणां कृते गौः अवध्या अस्ति।"
Synonyms:
माता, जननी, जन्मदा, जनयित्री, प्रसूः, जनिः, जनी, जनित्री, सावित्री, अक्का, अम्बा, अम्बिका, अम्बालिका
noun
या जन्म ददाति पोषयति च।
"आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका गावी धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः"
Synonyms:
आखुकर्णपर्णिका, अद्रिभु, उन्दुरकर्णिका, उन्दुरकर्णी, पुत्रश्रेणी, बहुकर्णिका, बहुपर्णिका, भञ्जिपत्त्रिका, फञ्जिपत्त्रिका, फञ्जिपुत्त्रिका, भूदरीभवा, शम्बरी, मूषाकर्णी, मुसली, मूषीककर्णी, मूषिकपर्णी, मूषिपर्णिका, सञ्चित्रा, वृषा, वृषपर्णी, वृश्चिकर्णी, सुकर्णी, सुकर्णिका, सुवर्णी, माता, सुतश्रेणी, रण्डः, मूषककर्णी, मूषककर्णिका
noun
एका जलजा लता
"सरसि सर्वत्र आखुकर्णपर्णिका दृश्यते"
नाममाला
Sanskrit
सवित्री, जननी, माता
सवित्री जननी माता जनकः सविता पिता
verse 0.1.1.38
page 0019
अमरकोशः
Sanskrit
Word: माता
Root: माता
Gender: undefined
Number: undefined
Meaning(s):
mama
mother
good woman
Shloka(s):
1|7|14|2 अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः॥ (नाट्यवर्गः)
Synonym(s):
1|7|14|2 अम्बा (अम्बा) (स्त्री)
1|7|14|2 मातृ (मातृ) (स्त्री) air, cow, space, earth, mother, parents, any mother, lower mill-stone, father and mother [du.], daisy [Sphaerantus Indicus], 8 classes of female ancestors, daisy [Sphaerantus Indicus - bot.], two pieces of wood used in kindling fire, small water fern [Salvinia Cucullata - Bot.], muskroot plant [Nardostachys Jatamansi - Bot.], divine mothers or personified energies of the principal deities
Related word(s):
परा_अपरासंबन्धः नटी
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
माता, [ऋ]
स्त्री,
मान्यते पूज्यते या सा मानङ पूजायां नाम्नीति डातृ इति भरतः
(यद्बा, “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृ-दुहितृ ।” उणा० ९६ इति तृच् ।निपातितश्च स्वस्रादित्वाट्टाप् निषेधः ।)मा इति भाषा तत्पर्य्यायः जनयित्री २प्रसूः जननी इत्यमरः २९
सवित्री जनिः जनी जनित्री ८अक्का अम्बा १० अम्बिका ११ अम्बा-लिका १२ इति शब्दरत्नावली
मातृका १३ ।इति जटाधरः
*
षोडशप्रकारा मातरोयथा, --“स्तनदात्री गर्भधात्री भक्षदात्री गुरुप्रिया ।अभीष्टदेवपत्नी पितुः पत्नी कन्यका
सगर्भजा या भगिनी पुत्त्रपत्नी प्रियाप्रसूः ।मातुर्माता पितुर्माता सोदरस्य प्रिया तथा
मातुः पितुश्च भगिनी मातुलानी तथैव ।जनानां वेदविहिता मातरः षोडश स्मृताः
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकेय-संवादे १५ अध्यायः
तस्या गौरवं यथा, --“जनको जन्मदातृत्वात् पालनाच्च पिता स्मृतः ।गरीयान् जन्मदातुश्च योऽन्नदाता पिता मुने
विनान्नान्नश्वरो देहो नित्यः पितुरुद्भवः
तयोः शतगुणे माता पूज्या मान्या बन्दिता ।गर्भधारणपोषाभ्यां सा ताभ्यां गरीयसी
”इति तत्रैव ४० अध्यायः
अपि ।“स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ।उपनीय ददद्बेदमाचार्य्यः प्रकीर्त्तितः
एकादश उपाध्याया ऋत्विग्यज्ञकृदुच्यते ।एते मान्या यथापूर्व्वमेभ्यो माता गरीयसी
”इति गारुडे ९४ अध्यायः
अन्यच्च ।“न पितुर्व्वचनं कार्य्यं यथा मातुः सुतेन हि ।पिता पतितस्त्याज्यो माता सत्सुतेन हि ।गर्भधारणपोषाद्धि ततो माता गरीयसी
दशविप्रादुपाध्यायो गौरवेणातिरिच्यते ।तेभ्यः पिता दशभ्यस्तु माता चैव गरीयसी ।मातृतोऽन्यो देवोऽस्ति तस्मात् पूज्या सदासुतैः
मातुश्च यद्धितं किञ्चित् कुरुते भक्तितः पूमान् ।तद्धर्म्मं हि विजानीयादेवं धर्म्मविदो विदुः
”इति वह्निपुराणम्
अपरञ्च ।“गुरूणामपि सर्व्वेषां पूज्याः पञ्च विशेषतः ।तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता
यो भावयति या सूते येन विद्योपदिश्यते ।ज्येष्ठभ्राता भर्त्ता पञ्चैते गुरवः स्मृताः
आत्मनः सर्व्वयत्नेन प्राणत्यागेन वा पुनः ।पूजनीया विशेषेण पञ्चैते भूतिमिच्छता
यावत् पिता माता द्वावेतौ निर्व्विकारिणौ ।तावत् सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः
पिता माता सुप्रीतौ स्यातां पुत्त्रगुणैर्यदि ।स पुत्त्रः सकलं धर्म्मं प्राप्नुयात्तेन कर्म्मणा
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ।तयोः प्रत्युपकारोऽपि कथञ्चन विद्यते
तयोर्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसापि वा ।न ताभ्यामननुज्ञातो धर्म्ममन्यं समाश्रयेत्
”इति कौर्म्मे उपविभागे ११ अध्यायः
मातृशब्दसम्भाषया मातृतुल्यत्वम् यथा, --“मातरित्येव शब्देन याञ्च संभाषते नरः ।सा मातृतुल्या सत्येन धर्म्मः साक्षी सतामपि
तया सहितशृङ्गारे कालसूत्रं प्रयाति सः ।तत्र घोरे वसत्येव यावद्वै ब्रह्मणो वयः
प्रायश्चित्तं पापिनश्च तस्य नैव श्रुतौ श्रुतम्
”इति ब्रह्यवैवर्त्ते ब्रह्मखण्डे १० अध्यायः
शिवस्य परिवारविशेषः असुरमारणेब्रह्मादीनां स्वेदनिर्गतत्वात् अष्टशक्तिदेवता-रूपो यथा, --“ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा ।कौमारी चैव चामुण्डा चर्च्चिकेत्यष्ट मातरः
”सप्तविधोऽपि यथा, --“ब्राह्मी वैष्णवी चैन्द्री रौद्री वाराहिकीतथा ।कौवेरी चैव कौमारी मातरः सप्त कीर्त्तिताः
”इत्यमरटीकायां भरतः
गौर्य्यादिषोडशमातृकाः यथा, --“गौरी पद्मा शची मेधा सावित्री विजया जया ।देवसेना स्वधा स्वाहा मातरो लोकमातरः
शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह ।आदौ विनायकः पूज्यो अन्ते कुलदेवता
”इति श्राद्धतत्त्वे बह्वृचगृह्यपरिशिष्टम्
वैष्णवपूज्या मातृगणा यथा, --“यत्र मातृगणाः पूज्यास्तत्र ह्येताः प्रपूजयेत् ।सदा भागवती पोर्णमासी पद्मान्तरङ्गिका
गङ्गाकलिन्दतनयागोपीवृन्दावतीस्तथा ।गायत्त्रीतुलसीवाणीपृथिवीगाश्च वैष्णवीः
श्रीयशोदादेवहूतीदेवकीरोहिणीमुखाः ।श्रीसीता द्रौपदी कुन्ती ह्यपरा या महर्षयः ।रुक्मिण्याद्यास्तथा चाष्ट महिषीर्याश्च ताअपि
”इति पाद्मे उत्तरखण्डे ७८ अध्यायः
सप्त मातरो यथा, --“आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका ।गावी धात्री तथा पृथ्वी सप्तैता मातरःस्मृताः
”इति कैश्चित् पठितम्
मातृतुल्या यथा ।“मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।श्वश्रूः पूर्व्वजपत्नी मातृतुल्याः प्रकीर्त्तिताः
”इति दायभागः
गौः भूमिः इति मेदिनी ते, ४३
(निरुक्तेच “यदूर्द्धस्तिष्ठा द्रविणेह धत्ताद्यद्वा-क्षयो मातुरस्या उपस्थे ।” “मातुः अस्यापृथिव्याः ।” इति तट्टीकायां दुर्गाचार्य्यः ।)विभूतिः इति शब्दरत्नावली
लक्ष्मीः इतिहेमचन्द्रः ३२१ रेवती इत्यजयपालः
आखुकर्णी इन्द्रवारुणी महाश्रावणी जटा-मांसी इति राजनिर्घण्टः
परिमाणकर्त्तरि, त्रि अस्मिन्नर्थे परिमाणार्थमाधातोः कर्त्तरितृन्प्रत्ययेन निष्पन्नः
(निर्म्माणकर्त्तरि ।यथा, ॠग्वेदे ६१ ।“अस्येदु मातुः सवनेषु सद्योमहः ।”“मातुः वृष्टिद्वारेण सकलस्य जगतो निर्मातुः ।”इति तद्भाष्ये सायनः
)
माता,
स्त्री,
(मान्यते पूज्यते इति मान पूजायां +तन् ततष्टापि निपातनात् साधुः ।) जननी यथा, ‘विश्वेश्वरीं विश्वमातां चण्डिकां प्रणमाम्यहम् ।’इति शिवरहस्ये दुर्गास्तवदर्शनात् आबन्तोऽयंशब्दः
वाचस्पत्यम्
Sanskrit
माता स्त्री मा--अतच् जनन्याम् “विश्वेश्वरीं विश्वमाताम्”इति दुर्मास्तवः
कृदन्तरूपमाला
Sanskrit
1 {@“मेङ् प्रणिदाने”@} 2 ‘मिमीते मायते माने, माति तत्रैव शब्लुकि।
मयते प्रणिदानेऽर्थे…।।’ 3 इति देवः।
“प्रणिदानम् = विनिमयः।
‘प्रत्यर्पणम्’ इत्यपरे।” इति मा।
धा।
वृत्तिः।
“--प्रतिदाने-इति काशकृत्स्नः।
तथैव कातन्त्रे, चान्द्रे च।
‘प्रणिधाने’ इति पाठान्तरम्।” इति क्षी।
टीका।
मायकः-यिका, मापकः-पिका, मित्सकः-त्सिका, मेमीयकः-यिका
माता- मात्री, माययिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकमातिवत् 4 ज्ञेयानि।
शानचि- 5 मयमानः- प्रणिप्रयमानः, 6 अपमित्य, 7 अपमाय वा याचते।
याचित्वा अपमयते।
8 9 धान्यमायः, इतीमानि रूपाण्यस्माद् भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१३१४)
02
=>
(१-भ्वादिः-९६१। सक। अनि। आत्म।)
03
=>
(श्लो। ९)
04
=>
(१२४०)
05
=>
[[४। शानचि, शपि अयादेशे रूपमेवम्। ‘--अशिति’ (६-१-४५) इत्युक्तत्वात् आत्वं नेति ज्ञेयम्। प्रणिमयमानः इत्यत्र ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
06
=>
[[५। अपपूर्वकादस्मात्, ‘उदीचां माङो व्यतीहारे’ (३-४-१९) इति क्त्वाप्रत्यये, तस्य सामासिके ल्यपि, ‘मयतेरिदन्यतरस्याम्’ (६-४-७०) इति इकारेऽन्तादेशे अपमित्य इति रूपम्। पक्षे अपमाय इति च। अपूर्वकालार्थं वचनमिदम्। अत्र (३-४-१९) ‘उदीचाम्’ इत्युक्तत्वात्, प्राचां मते तु ‘याचित्वाऽपमयते’ इत्यपि प्रयोगः साधुः। ‘उदीचाम्--’ (३-४-१९) इति सूत्रे ‘माङ्’ इति, मेङः कृतात्वस्य निर्देश इति ‘दाधा ध्वदाप्’ (१-१-२०) सूत्रे भाष्ये स्पष्टम्।]]
07
=>
[[आ। ‘अपमित्य तपोवित्तैरस्या भागं भगीरथः।’ सुभद्राहरणे।]]
08
=>
[पृष्ठम्१०५७+ २८]
09
=>
[[१। कर्मणि उपपदे आदन्तलक्षणं कप्रत्ययं बाधित्वा, ‘ह्वावामश्च’ (३-२-२) इत्यण्। आत्वे कृते, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः।]]