| YouTube Channel

मातरिश्वा (mAtarizvA)

 
Wordnet
Sanskrit
Synonyms:
वायुः, वातः, अनिलः, पवनः, पवमानः, प्रभञ्जनः, श्वसनः, स्पर्शनः, मातरिश्वा, सदागतिः, पृषदश्वः, गन्धवहः, गन्धवाहः, आशुगः, समीरः, मारुतः, मरुत्, जगत्प्राणः, समीरणः, नभस्वान्, अजगत्प्राणः, खश्वासः, वाबः, धूलिध्वजः, फणिप्रियः, वातिः, नभःप्राणः, भोगिकान्तः, स्वकम्पनः, अक्षतिः, कम्पलक्ष्मा, शसीनिः, आवकः, हरिः, वासः, सुखाशः, मृगवाबनः, सारः, चञ्चलः, विहगः, प्रकम्पनः, नभः, स्वरः, निश्वासकः, स्तनूनः, पृषताम्पतिः, शीघ्रः
noun
विश्वगमनवान् विश्वव्यापी तथा यस्मिन् जीवाः श्वसन्ति।
"वायुं विना जीवनस्य कल्पनापि अशक्या।"
शब्दकल्पद्रुमः
Sanskrit
मातरिश्वा,
पुं,
(मातरि अन्तरीक्षे श्वयतिवर्द्धते इति यद्बा, मातरि जनन्यां श्वयतिवर्द्धते सप्तसप्तकत्वादिति श्वि + “श्वन् उक्ष-न्निति ।” उणा० १५८ इति कनिन् ।नाम्नि सप्तम्या अलुक् धातोरिकारलोपश्चनिपातितः ।) वायुः इत्यमरः ६४ ।(यथा, ऋग्वेदे ९३ ।“आन्यं दिवो मातरिश्वाजभारामथ्नादन्यंपरिश्येनो अद्रेः
”“मातरिश्वा वायुः ।” इति तद्भाष्ये सायनः
मातर्य्यन्तरिक्षे श्वसिति चेष्टते इति श्वस् +कनिन् अग्निभेदः यथा, ऋगवेदे २९ ११ ।“तनूनपादुच्यते गर्भं आसुरोनराशंसो भवति यद्विजायते ।मातरिश्वा यदमिमीत मातरिवातस्य सर्गो अभवत् सरीमणि
”“यदाग्निररणीषु गर्भरूपतया वर्त्तते तदा तनू-नपान्नामको भवति यदान्तरिक्षे विद्योतते तदामातरिश्वनामको भवति ।” इति तद्भाष्येसायनः
)