| YouTube Channel

मातङ्गी (mAtaGgI)

 
Shabdartha Kaustubha
Kannada
मातङ्गी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಾರ್ವತಿ /ದುರ್ಗಾದೇವಿ
मातङ्गी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹತ್ತು ಮಹಾವಿದ್ಯೆಗಳಲ್ಲಿ ಒಂದು ವಿದ್ಯೆ
Schmidt Nachtrage zum Sanskrit Worterbuch
German
मातङ्गी °eine Art nāyikā, E 406 (P).
Wordnet
Sanskrit
Synonyms:
मातङ्गी
noun
कश्यपर्षेः सुता।
"मातङ्ग्याः वर्णनं पुराणेषु वर्तते।"
Mahabharata
English
Mātaṅgī, daughter of Krodhavaśā, mother of the elephants. § 127 (Aṃśāvat.): I, 66, 2625, 2630.
पुराणम्
English
मातंगी / MĀTAṄGĪ. The great grandmother of the elephants. mātaṅgī was the daughter of krodhavaśā, daughter of dakṣa and wife of Kaśyapaprajāpati. mātaṅgī had nine sisters. Elephants were born of mātaṅgī. (sarga 14, araṇya Kāṇḍa
vālmīki rāmāyaṇa).
शब्दकल्पद्रुमः
Sanskrit
मातङ्गी,
स्त्री,
(मतङ्गस्य मुनेरपत्यं स्त्री मातङ्ग +अण् ङीष् ।) दशमहाविद्यान्तर्गतनवमविद्या ।अथ मातङ्गीमन्त्रः वामकेश्वरतन्त्रे ।“अथ वक्ष्ये महादेवीं मातङ्गीं सर्व्वसिद्धिदाम् ।अस्योपासनमात्रेण वाक्सिद्धिं लभते ध्रुवम्
प्रणवञ्च ततो मायां कामबीजञ्च कूर्च्चकम् ।मातङ्गी ङेयुता चास्त्रं वह्निजायावधिर्मनुः
ऋषिः स्याद्दक्षिणामूर्त्तिर्विराट छब्दः प्रकी-र्त्तितम् ।मातङ्गीदेवता देवी सर्व्वसिद्धिप्रदायिनी
अङ्गन्यासकरन्यासौ कुर्य्यान्मन्त्री समाहितः ।षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत्
षट्कोणाष्टदलं पद्मं लिखेद्यन्त्रं मनोरमम् ।तत्र पूजा प्रकर्त्तव्या जवापुष्पेण मन्त्रवित्
अष्टशक्तीश्चाष्टदले पूजयेत् सुसमाहितः ।रतिः प्रीतिर्मनोभवा क्रिया श्रद्धा शक्तयः
अनङ्गकुसुमानङ्गमदना मदनालसा ।इत्यष्टशक्तीः संपूज्य उपहारसमन्वितः
ततो देवीं परां ध्यायेत् साधकः स्थिरमानसः
श्यामाङ्गीं शशिशेखरां त्रिनयनां रत्नसिंहा-सनस्थिताम् ।वैदैर्वाहुदण्डैरसिखेटकपाशाङ्कुशघराम्
एवं ध्यात्वा महादेवीं गन्धपूष्पैर्मनोरमैः ।नैवेद्यन्तु महादेव्यै पायसं शर्करान्वितम्
पुरश्चरणकाले तु षट्सहस्रं मनुं जपेत् ।तद्दशांशं हुनेदाज्यैः शर्करामधुभिः सह
ब्रह्मवृक्षोद्भवैः काष्ठैः साधकः शक्तिभिः सह ।एवं पुरष्क्रियां कृत्वा प्रयोगविधिमाचरेत्
चतुष्पथे श्मशाने वा कलामध्ये मान्त्रिकः ।मत्स्यं मांसं पायसञ्च दद्याद्धूपञ्च गुग्गुलुम्
रात्रियोगेन कर्त्तव्यं सदा पूर्णश्च साधक्ः ।एवं प्रयोगमात्रेण कविता जायते ध्रुवम्
अग्निस्तम्भं जलस्तम्भं वाक्स्तम्भं कारयेत् ध्रुवम् ।मन्त्री जयति शत्रूंश्च तार्क्ष्यो भोगिकुलं यथा
शास्त्रे वादे कवित्वे बृहस्पतिरिवापरः ।अनेनैव विधानेन मातङ्गी सिद्धिदायिनी
नूनं तद्गृहमागत्य कुवेरैर्दीयते वसु ।विना मत्स्यैर्विना मांसैर्नार्च्चयेत् परदेवताम्
”इति तन्त्रसारः