| YouTube Channel

माङ्गल्यं (mAGgalyaM)

 
शब्दकल्पद्रुमः
Sanskrit
माङ्गल्यं, त्रि, (मङ्गलाय हितमिति मङ्गल +ष्यञ् ।) मङ्गलाय हितम् यथा, राजमार्त्तण्डे ।“माङ्गल्येषु विवाहेषु कन्यासंवरणेषु ।दश मासाः प्रशस्यन्ते चैत्रपौषविवर्ज्जिताः
”इत्युद्वाहतत्त्वम्
अपि भीमपराक्रमे ।“अधिमासे दिनपाते धनुषि रवौ भानुलङ्घितेमासि ।चक्रिणि सुप्ते कुर्य्यान्न माङ्गल्यं विवाहञ्च
”इति मलमासतत्त्वम्
(मङ्गलस्य भावः “मङ्गतेरलच् ।” उणा०५ ७० इत्यस्य वृत्तौ “भावे ष्यञि माङ्ग-ल्यम् ।” इत्युज्ज्वलदत्तः
)