| YouTube Channel

माङ् (mAG)

 
Macdonell
English
माङ् māṅ, gr. designation of the pcl. mā.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मा
मूलधातुः:
माङ्
धात्वर्थः:
माने, शब्दे
गणः:
जुहोत्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मिमीते
अनुबन्धादिविशेषः:
आकारान्तः, भृञादिः
धातुः:
मा
मूलधातुः:
माङ्
धात्वर्थः:
माने
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मायते
अनुबन्धादिविशेषः:
आकारान्तः
धातुप्रदीपः
Sanskrit
माङ् माने, शब्दे
- मिमीते प्रणिमिमीते मिमाते मिमते मीयते प्रणिमीयते ममे, ममाते माता मित्वा मितः धान्यमायः व्योममायः 6
माङ् माने
-मायते मीयते ममे मित्सते मितम् 36
क्षीरतरङ्गिणी
Sanskrit
माङ् माने, शब्दे
- मिमीते, भृञामित् (7476) मासीष्ट अकित्त्वाद् ईत्वं नास्ति सनि मीमा (7454) इति मित्सते अदादौ मा माने (255)-माति भ्वादौ मेङ् प्रणिदाने(1685)-विनिमयते
धातुवृत्तिः
Sanskrit
माङ् (अर्थः) माने, शब्दे
अनुदात्त आत्मनेपदी, ( मिमीते, मिमाते, मिमते, मिमीषे, मिमाथे, मिमीध्वे, मिमे, मिमीवहे ) भृञादित्त्वाच्छ्लावभ्यासस्येत्त्वम् हलादौ क्ङिति सार्वधातुके "ई हल्यघोः'' इतीत्वमभ्यस्तस्य अजादौ तु "श्नाभ्यस्तयोः'' इत्याल्लोपः ( प्रणिमिमीते ) "नेर्गद'' इत्यादिना णत्वम् ( ममे, ममाते, ममिरे, ममिषे, ममाथे, ममिध्वे, ममे, ममिवहे, ) क्रादिनियमादिट् "आतो लोप इटि च'' इत्याकारलोपः ( माता मास्यते मिमीताम्, मिमाताम्, मिमताम्, मिमीष्व, मिमै अमिमीत, अमिमाताम्, अमिमत, अमिमीथाः, अमिमाथाम्, अमिमीध्वम्, अमिमि, अमिमीवहि मिमीत, मिमीयातां, मिमीथाः, मिमीथ ) आशिषि, ( मासीष्ट, मासीयास्ताम्, अमास्त, अमासाताम्, अमासत, अमास्थाः, अमाध्वम्, अमासि, अमास्वहि मित्सते ) "सनिमीमा'' इत्यच् इस् "सहस्यार्धधातुके'' इति तत्वम् "अत्र लोप'' इत्यभ्यासलोपः ( मेमीयते ) "घुमास्था'' इतीत्वे द्विर्वचनेऽभ्यासस्य गुणः ( मामाति, मामेति, मामीतः, मामति मापयति अमीमपत् मित्वा मितः मितवान् मितिः ) "द्यतिस्यतिमा'' इतीत्वम् ( प्रमाय ) "न ल्यपि'' इति "घुमास्था'' इतीत्वस्य निषेधः ( मेयम् ) "अचो यत्, '' "ईद्यति'' इतीत्वे गुणः मीयतेऽनेनेति ( पाप्यम् ) "पाय्यसान्नाय्य'' इत्यादिना मानेऽभिधेये ण्यदादित्वं निपात्यते "आतो युक्'' इति युक् मिमीतइति ( मायः ) "श्याद्व्यध'' इत्यादिना णे नुक् ( माया ) टाप् ( मायी, मायिकः, मायावी, मातौ ) मत्वर्थे व्युत्पादितम् ( धान्यमायः ) "ह्वावामश्च'' इति ( 1 ) ( 1 ) कर्मण्युपपदेऽण्नप्रत्यय इति पुस्तकान्तरे दृश्यते कर्मण्यण् कस्यापवादः प्रमिमीतइति ( प्रमः ) "आतश्चोपसर्गे'' इति कः ( प्रमा ) स्त्रियाम् "आतश्चोपसर्गे'' इत्यङ् ( प्रमितिः ) बाहुलकात् क्तिन् ( वातप्रमीः ) वातमृगः "वातप्रमीः'' इति वातोपपदात्प्रपूर्वादस्मादीकारप्रत्ययआल्लोपे निपात्यते अजादौ यणादेशे वातप्रम्यावित्यादि सप्तम्येकवचने तु यणः परत्वात्सवर्णदीर्घे वातप्रमी इति भवति अन्ये तु "अन्येभ्योऽपि दृश्यते'' इति क्विपि "घुमास्था'' इतीत्वे व्युत्पादयन्ति "ईत्वमकारादौ'' इति भाष्ये स्थितम् तन्मते अजादौ "एरनेकाच'' इति यण् तत्र त्वयं विशेषः, सप्तम्येकवचने यण् परत्वात्सवर्णदीर्घं बाधत इति वातप्रम्यीति भवति उणादिवृत्तौ तु मिनोतेरीकारप्रत्यये व्युत्पाद्यते ( मेरुः, ) "मापोरुरी च'' इति रुप्रत्यये ईकारे चान्तादेशे गुणः 6
माङ् (अर्थः) माने
अयं कैश्चिदेव पठ्यते यदाह स्वामी "माङ् मान'' इति दुर्ग इति तथा "घुमास्था'' आदिसूत्रे न्यासेऽपि "मा' इति कस्येदं ग्रहणम्, किं मेङ् प्रणिदान इति भौवादिकस्य, उत माङ् माने इति जौहोत्यादिकस्य, आहोस्विद् मा माने इत्यादादिकस्य "गामादाग्रहणेष्वविशेषः' इती त्रयाणामपि ग्रहणमिति तथा "द्यतिस्यति''इत्यत्र "सनिमीमा'' दत्यत्राप्युक्तानामेव त्रयाणां ग्रहणमित्युच्यते पठतामीकारान्तमध्ये पाठः पवर्गीयाद्यात्मनेपदप्रसङ्गात् ( मायते ममे मात मास्यते मायताम् अमायत मायेत मासीष्ट ) लिङौ ( अमास्त ) इत्यादि अन्यस्मिन् मातिवत् 34
कृदन्तरूपमाला
Sanskrit
1 {@“माङ् माने शब्दे च”@} 2 ‘मिमीते मायते माने माति तत्रैव शब्लुकि।
मयते प्रणिदानेऽर्थे--।।’ 3 इति देवः।
मायकः-यिका, मापकः-पिका, मित्सकः-त्सिका, मेमीयकः-यिका
माता-त्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकमातिवत् 4 बोध्यानि।
5 मिमानः, 6 वातप्रमीः-वातप्रम्यौ-वातप्रम्यः, 7 प्रणिमानम्-प्रणिमापनम्, मेयम्, पाय्यम्, 8 व्योममायः, 9 चन्द्रमाः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
अस्य धातोः आत्मनेपदित्वात् शानचि-अनुमिमानः, मित्समानः, मास्यमानः, मित्स्यमानः, इति विशेषः।
10
प्रासङ्गिक्यः
01
=>
(१२४२)
02
=>
(३-जुहोत्यादिः-१०८८। सक-अक। अनि। आत्म।)
03
=>
(श्लो। ९)
04
=>
(१२४०)
05
=>
[[१। शानचि, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति शपः श्लुः। ‘श्लौ’ (६-१-१०) इति द्विर्वचने, ‘भृञामित्’ (७-४-७६) इत्यभ्यासस्येकारः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः।]]
06
=>
[[२। वातं प्रमिमीते इत्यर्थे ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विपि ‘घुमास्थागा- पाजहातिसां हलि’ (६-४-६६) इतीकारे रूपमेवम्। ‘ईत्वे वकारप्रतिषेधः--’ (वा। ६-४-६६) इति वचनं तु श्रूयमाणवकारादिषत्ययविषयकमिति नात्र प्रवर्तते। वातप्रमीः शमीवृक्षः, पक्षिविशेषश्च।]]
07
=>
[[३। ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य नेर्णत्वम्। एवं ण्यन्तेऽपि णत्वं ज्ञेयम्।]]
08
=>
[[B। ‘जगाम सपरीवारो व्योममायमिवोत्थितम्।।’ भ। का। ६। ८८।]]
09
=>
[[४। ‘चन्द्रे मो डित्’ (द। उ। ९-८८) इत्यनेन चन्द्रशब्द उपपदे धातोरस्यासिप्रत्यये तस्य डिद्वद्भावेन टिलोपे रूपमेवम्।]]
10
=>
[पृष्ठम्१०१७+ ३०]
1 {@“माङ् माने”@} 2 ‘मिमीते मायते माने माति तत्रैव शब्लुकि।’ 3 इति देवः।
दुर्गादयः केचिदेवामुं धातुं पठन्ति।
क्षीरस्वामिप्रभृतयस्तु पठन्ति।
मायकः-यिका, मापकः-पिका, मित्सकः-त्सिका, मेमीयकः-यिका
माता-त्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकमातिवत् 4 ज्ञेयानि।
शानचि, 5 मायमानः इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१२४३)
02
=>
(४-दिवादिः-११४२। सक। अनि। आत्म।)
03
=>
(श्लो। ९)
04
=>
(१२४०)
05
=>
[[१। शानचि, ‘दिवादिभ्यः--’ (३-१-६९) इति श्यनि, रूपमेवम्। अत्र श्यनोऽपि- त्सार्वधातुकत्वेन ङिद्वद्भावात् ‘घुमास्था--’ (६-४-६६) इति ईकारे सति मीयमानः इत्येव न्याय्यम्। ‘गामादाग्रहणेष्वविशेषः’ (परि। ११६) इति वचनमप्यस्य ईकारे ऽनुकूलम्। तथापि सर्वैरपि वैयाकरणैः ‘घुमास्था--’ (६-४-६६) सूत्रे भौवादिका- दादिकजौहोत्यादिकमाधातूनामेव ग्रहणस्योक्तत्वात् अत्र ईकार इति ज्ञेयम्।]]
Capeller
German
माङ् = 1. मा (g.).