माघ (mAgha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishमाघ (-घः)
1. One of the months of the Hindu year, (January-Fe-
bruary.)
2. A poet, the author of the SIŚUPĀLA Vadha or as it
is named after him the Māgha Kāvya, one of the great profane
poems of Hindu literature.
(-घी)
1. A potherb, (Hingtsha re-
pens.)
2. The day of full-moon in the Month of Māgha.
मघा
the asterism, in which the moon is full in this month, and अण्
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English माघ mAgha January - February
माघ mAgha relating to the constellation maghA
माघ mAgha February
माघ mAgha month mAgha
माघ mAgha January - February
उत्तरपौष uttarapauSa January
पूर्वमाघ pUrvamAgha January
Wilson
Englishमाघ
(-घः)
1 One of the months of the Hindu year, (JanuaryFebruary.)
2 A poet, the author of the ŚIŚUPĀLA Badha, or as it is named after him
the Māgha Kāvya, one of the great profane poems of Hindu literature.
(-घी) A potherb, (Hingtsha repens.)
मघा the asterism, in which the moon is full this month, and अण्
Apte
Englishमाघः [māghḥ], [मघानक्षत्रयुक्ता पौर्णमासी माघी सा$त्र मास अण्]
of a lunar month (corresponding to January-February).
of a poet, the author of the Śiśupālavadha or Māgha-kāvya
(the poet describes his family in 2.8-84 and thus concludes: श्रीशब्दरम्यकृतसर्ग- समाप्तिलक्ष्म लक्ष्मीपतेश्चरितकीर्तनचारु माघः । तस्यात्मजः सुकविकीर्ति- दुराशयादः काव्यं व्यधत्त शिशुपालवधाभिधानम् ॥)
उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥
तावद्भा भारवेर्भाति यावन्माघस्य नोदयः Udb. -घी the day of full moon in the month of Māgha.
Apte 1890
Englishमाघः [मघानक्षत्रयुक्ता पौर्णमासी माघी साऽत्र मास अण्] 1 N. of a lunar month (corresponding to January-February).
2 N. of a poet, the author of the Śiśupālavadha or Māgha-kāvya
(the poet describes his family in Śi. 20. 80-84 and thus concludes:
श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म लक्ष्मीपतेश्चरितकीर्तनचारु माघः । तस्यात्मजः सुकविकीर्तिदुराशयादः काव्यं व्यवत्त शिशुपालवधाभिधानम् ॥)
उपमा कालिदासस्य भारवेरर्थगौरवं । दंडिनः पदलालित्यं माघे संति त्रयो गुणाः ॥
तावद्भा भारवेर्भाति यावन्माघस्य नोदयः Udb.
घी The day of full moon in the month of Māgha.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishमाघ माघ, अस्, ई, अम् (fr. मघा), related
to the constellation Maghā
(अस्), m., scil. मास,
the month Māgha which begins with the winter
solstice (= January-February)
N. of a poet (son of
Dattaka and author of the Śiśupāla-vadha or Māgha-
kāvya)
(ई), f., scil. तिथि, the day of full moon in
the month Māgha
Hingtsha Repens.
—माघ-
काव्य, अम्, n. the poem of Māgha, i. e. the Śiśu-
pāla-vadha.
—माघ-चैतन्य, अस्, m., N. of the
author of the eighth book of the Kalpa-latā.
—माघ-
पाक्षिक, अस्, ई, अम्, belonging to one of the two
halves of the month Māgha.
—माघ-माहात्म्य,
अम्, n. ‘the majesty of the month Māgha, ’ N. of a part
of the Padma-Purāṇa.
—माघ-स्नान, अम्, n. bathing
or religious ablution in sacred pools &c. in the month
of Māgha.
—माघी-पक्ष-यजनीय, अम्, n. the
first day of the month Phālguna
[cf. यजनीय।]
Macdonell
EnglishApte Hindi
Hindiमाघः
- मघानक्षत्रयुक्ता पौर्णमासी माघी साऽत्र मासे अण्
चान्द्रवर्ष के एक महीने का नाम (यह जनवरी-फरवरी मास में आता हैं
माघः
- -
एक कवि का नाम जिसने शिशुपालवध या महकाव्य की रचना की (कवि ने शि* २०।८०-८४ में अपने कुल का वर्णन इस प्रकार किया हैं-श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्मलक्ष्मीपतेश्चरितकीर्तनचारु माघः तस्यात्मजः सुकविकीर्तिदुराशयादः काव्यं व्यधत्त शिशुपालवधामिधानम्)
Shabdartha Kaustubha
Kannadaमाघ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ಚಾಂದ್ರಮಾಸ /ಮಾಘಮಾಸ
व्युत्पत्तिः - > मघानक्षत्रेण युक्ता माघी पूर्णिमा - सा यस्मिन् मासे सः
माघ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಾಘಕವಿ
माघ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಾಘಕವಿಯಿಂದ ರಚಿತವಾದ ಶಿಶುಪಾಲವಧಕಾವ್ಯ
प्रयोगाः - > "पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा पुरुषेषु विष्णुः । नदीषु गङ्गा नृपतौ च रामः काव्येषु माघः कविकालिदासः ॥"
विस्तारः - > ಕಾವ್ಯಗಳು ಕವಿಯ ಹೆಸರಿನಿಂದಲೂ ಪ್ರಸಿದ್ಧಿ ಹೊಂದುವವು. "कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा" - सा० द० ६-३२४
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishSanskrit Tibetan
Tibetanmchu
१) अधर २) आरोह ३) ओष्ठ ४) ओष्ठता ५) चञ्चु ६) तुण्ड ७) मघा ८) माघ
अभिधानचिन्तामणिः
Sanskritमाघस्तपाः फाल्गुनस्तु फाल्गुनिकस्तपस्यवत् ।
माघ (पुं), तपस् (पुंक्ली), फाल्गुन (पुं), फाल्गुनिक (पुं), तपस्य (पुं)
वैजयन्तीकोषः
SanskritWord: माघः
Root: माघ
Gender: पुं
Number: all
अर्थः ⇒ माघो नाम चान्द्रमासः
Meaning(s):
⇒ First month of the chilly (śiśira) season
Shloka(s):
2|1|82|1 ► सहस्ये स्यु स्तैषपौषसैधा माघे तु शानकः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|82|2 ► शातरश्च तपाश्चाथ द्वौ फाल्गुनिकफाल्गुनौ॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|82|1 ⇢ माघः (माघ) (पुं) ⇒ First month of the chilly (śiśira) season ⇒ माघो नाम चान्द्रमासः
➠ 2|1|82|1 ⇢ शानकः (शानक) (पुं) ⇒ Epithet of Magha ⇒ माघो नाम चान्द्रमासः
➠ 2|1|82|2 ⇢ शातरः (शातर) (पुं) ⇒ Epithet of Magha ⇒ माघो नाम चान्द्रमासः
➠ 2|1|82|2 ⇢ तपः (तपस्) (पुं) ⇒ Epithet of Magha ⇒ माघो नाम चान्द्रमासः
Related word(s):
अवयव_अवयवीसंबन्धः ➡ माघी
परा_अपरासंबन्धः ➡ मासः
जातिः ➡ कालः
Mahabharata
EnglishMāgha, name of a month. § 587 (Bhīshmavadhap.): VI, 119, 5632 (ºmāse gavā iva, but B. reads māghamāṃ segavā iva, cf. the explanation of Nīl.).--§ 733p (Gaṅgā-Yamunayos tīrthaṃ): XIII, 25, 1724 (ºmāse, then one should bathe in Prayāga).--§ 746 (Ānuśāsanik.): XIII, 66, 3316 (ºmāse, the merit of gifts of seeds in the month of M.).--§ 759 (do.): XIII, 106, 5152 (ºmāsaṃ, the merit of fasting during M.)
109, 5374 (dvādaśyāṃ Mºmāse, then one should worship Kṛshṇa as Mādhava).--§ 777 (Svargārohanik. p.): XIII, 168, 7733 (māsaḥ, the month in which Bhīshma died). --§ 785 (Anugītāp.): XIV, 85, 2513 (dvādaśīṃ Mºpākshikīṃ
ºmāsikīṃ, B.).
पुराणम्
Englishमाघ / MĀGHA. A Sanskrit poet who lived in the 7th Century A.D. The only work of his which has come to light is Śiśupālavadha known popularly as māgha.Upamā Kālidāsasya
Bhāraverarthagauravam ।
Daṇḍinaḥ padalālityaṁ
Māghe santi trayo guṇāḥ ।।
This is a very famous verse meaning thus: “The simile of kālidāsa, the depth of meaning of the words of bhāravi and the simplicity of language of Daṇḍin are all present in Māgha”. This indicates how great a poet māgha was.
From the last part of this kāvya it can be surmised that māgha was the son of dattaka and grandson of Suprabhadeva. Suprabhadeva was the minister of a King called Dharmadeva. māgha was born in Gujarat. A literary critic named Jacobi fixes the period of māgha as the 6th century A.D. while others fix it as the 8th century A.D māgha has made references to the drama ‘Nāgānanda’ written by harṣa. harṣa was a King during the period 606 to 649 and that is why the period of māgha is fixed after that period.
माघ / MĀGHA. A month (February). This is so called because it is closely associated with the constellation maghā. This month is between the months of Pauṣa and phālguna. mahābhārata makes some statements about the importance of the month of māgha.(i) He who bathes at prayāga during this month will be free from all sins. (Śloka 37, Chapter 25, Anuśāsana Parva).(ii) He who gives gingelly as gift to Brahmins during this month will never go to hell. (Śloka 8, Chapter 66, anuśāsana parva).(iii) If one takes food only once a day during the whole of this month one will be born very rich in the next birth. (Śloka 31, Chapter 106, anuśāsana parva).(iv) If one worships śrī kṛṣṇa fasting on the Dvādaśī day of māgha one will get the benefit of conducting a rājasūya yajña. (Śloka 5, Chapter 109, Anuśāsana Parva).(v) bhīṣma expressed his desire to kṛṣṇa to end his life on the aṣṭamī day falling in the bright fortnight of the month of māgha. (anuśāsana parva, Chapter 167, Śloka 28).
शब्दकल्पद्रुमः
Sanskritमाघः, श्रीदत्तकसूनुशिशुपालवधमहाकाव्य-कर्त्ता । इति तद्ग्रन्थशेषपुष्पिका ॥
स्वनाम-ख्यातमहाकाव्यम् । यथा, --पुष्पेषु जाती नगरेषु काञ्चीनारीषु रम्भा पुरुषेषु विष्णुः ।नदीषु गङ्गा नृपतौ च रामःकाव्येषु माघः कविकालिदासः ॥
”इति प्राचीनाः ॥
वैशाखादिद्वादशमासान्तर्गतदशममासः ।मघायुक्ता पौर्णमासी यत्र मासे सः ॥
तत्-पर्य्यायः । तपाः २ । इत्यमरः । ४ । १ । ४ । १५ ॥
स च त्रिविधः । मकरस्थरव्यारब्धशुक्लप्रति-पदादिदर्शान्तो मुख्यचान्द्रः १ । कृष्णप्रति-पदादिपौर्णमास्यन्तो गौणचान्द्रः २ । मकरस्थ-रविकः सौरः ३ । इति मलमासतत्त्वीयलिखन-स्वरसात् ॥
तत्र जातफलम् ।“विद्याविनीतः स्वकुलप्रधानःसदा सदाचारयुतः प्रवीणः ।योगानुरक्तो विषयेष्वसक्तोमाघेऽथ मासे मघवानिवेशः ॥
”इति कोष्ठीप्रदीपः ॥
* ॥
अथ, माघकृत्यम् । पाद्मे ।“स्वर्गलोके चिरं वासो येषां मनसि वर्त्तते ।यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे ॥
”मृगो मृगास्यत्वेन मकरः । तत्स्थे भास्करे ।तत्र सङ्कल्पः । अरुणोदयकाले जले मज्जनंकृत्वा आचम्य उत्तराभिमुखः ओँ तत् सदित्यु-च्चार्य्य कुशकुसुमतिलजलान्यादाय ओमद्य माघेमासि अमुकपक्षे अमुकतिथावारभ्य मकरस्थ-रविं यावत् प्रत्यहममुकगोत्रोऽमुकदेवशर्म्मास्वर्गलोके चिरकालवासकामो विष्णुप्रीतिकामोवा प्रातःस्नानमहं करिष्पे इति संकल्प्यगङ्गाव्यतिरिक्तजलमात्रेऽपि स्नानं कर्त्तव्यम् ।प्रतिदिनसङ्कल्पे तु आरभ्य मकरस्थरविं यावत्प्रत्यहमिति न वक्तव्यं किन्तु मास्यनन्तरं मकरस्थेरवावित्यधिकं वक्तव्यम् । चान्द्रस्नानवाक्यन्तुवैशाखकृत्येऽनुसन्धेयम् । तत्र सङ्कल्पं कृत्वायथोक्तविधिना स्नानेति कर्त्तव्यतां विधाय, --“ओँ दुःखदारिद्र्यनाशाय श्रीविष्णोस्तोषणाय च ।प्रातःस्नानं करोम्यद्य माघे पापप्रणाशनम् ॥
मकरस्थे रवौ माघे गोविन्दाच्युत माधव ।स्नानेनानेन मे देव ! यथोक्तफलदो भव ॥
”इत्युच्चार्य्य स्नायात् । ततो वासुदेवं हरिं कृष्णंश्रीधरञ्च स्मरेत्ततः ॥
“ओँ दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते ।परिपूर्णं कुरुष्वेदं माघस्नानं महाव्रतम् ॥
”चान्द्रस्नाने मकरार्कास्पष्टकाले मकरस्थे रवा-वित्यस्य न पाठः । असमवेतार्थत्वात् । तीर्थे तु ।“माघमासमिमं पुण्यं स्नाम्यहं देव माधव ।तीर्थस्यास्य जले नित्यं प्रसीद भगवन् हरे ॥
”इति पठित्वा दुःखदारिद्र्यनाशायेत्यादिकंपठितव्यम् । गङ्गायान्तु पद्मपुराणे ।“दिने दिने सहस्रन्तु सुवर्णानां विशाम्पते ! ।तेन दत्तं हि गङ्गायां यो माघे स्नाति माधव ॥
”मानव इति क्वचित् पाठः । एकदा सङ्कल्पे तुप्रतिदिनसहस्रसुवर्णदानजन्यफलसमफलप्राप्ति-कामः श्रीविष्णुप्रीतिकामो वा माघमासं यावत्प्रत्यहं गङ्गायां प्रातःस्नानमहं करिष्ये । इतिवाक्ये विशेषः । प्रतिदिनसंकल्पे तु सहस्रसुवर्ण-दानजन्यफलसमफलप्राप्तिकामो विष्णुप्रीति-कामो वा गङ्गायां प्रातःस्नानमहं करिष्ये इतियथोक्तविधिना स्नानेतिकर्त्तव्यतां विधाय ।“ओँ माघमासमिमं पुण्यं स्नाम्यहं देव माधव ।तीर्थस्यास्य जले नित्यं प्रसीद भगवन् हरे ॥
दुःखदारिद्र्यनाशाय श्रीविष्णोस्तोषणाय च ।प्रातःस्नानं करोम्यद्य माघे पापप्रणाशनम् ॥
मकरस्थे रवौ माघे गोविन्दाच्युत माधब ।स्नानेनानेन मे देव यथोक्तफलदो भव ॥
”इति पठित्वा स्नायात् । ततःवासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥
“दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते ।परिपूर्णं कुरुष्वेदं माघस्नानं महाब्रतम् ॥
”इति पठेत् ॥
* ॥
स्कन्दपुराणम् ।“सम्प्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे शुभे ।कर्त्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः ॥
”तत्तत्पुण्यकामः श्रीविष्णुप्रीतिकामो वा इतिवाक्ये विशेषः ॥
* ॥
पौष्याः पौर्णमास्या ऊर्द्ध्वंमाघपौर्णमासीपर्य्यन्तं मदिरातुल्यत्वान्मूलकं नभोक्तव्यम् ॥
* ॥
पौष्या ऊर्द्ध्वं माघकृष्णाष्टम्यांछागमांसेन श्राद्धं कर्त्तव्यम् । मांसाभावेपायसोपकरणेन । तदभावे केवलान्नेन वाश्राद्धं कर्त्तव्यम् ॥
* ॥
अथ रटन्तीचतुर्द्दशी ।“माघे मास्यसिते पक्षे रटन्त्याख्यचतुर्द्दशी ।तस्यामुदयवेलायां स्नाता नावेक्षते यमम् ॥
”उदयवेलायां अरुणोदयवेलायाम् ।“अनर्काभ्युदिते काले माघे कृष्णचतुर्द्दशी ।सतारव्योमकाले तु तस्यां स्नानं महाफलम् ॥
स्नात्वा सन्तर्प्य तु यमान् सर्ब्बपापैः प्रमुच्यते ।”अत्र तिथिकृत्यत्वाद्गौणचान्द्रादरः । तत्रोभय-दिने अरुणोदयसतारकाले मुहूर्त्तान्यूनचतुर्द्दशी-लाभे पूर्व्वदिने स्नानं यमतर्पणञ्च । एकदिन-मात्रे तल्लाभे तद्दिने । माघस्नानकालाभ्यन्तरेतादृशचतुर्द्दशीलाभे माघप्रातःस्नायिना तन्त्रेणद्वयं कार्य्यम् । तत्र ओँ तत् सदद्य माघे मासिकृष्णे पक्षे रटन्त्यां चतुर्द्दश्यां तिथौ अरुणोदय-वेलायां अमुकगोत्रः श्रीअमुकदेवशर्म्मा यमा-दर्शनकामो गङ्गायां स्नानमहं करिष्ये इतिसङ्क्यल्प्य यथाविधि स्नानं प्रागुक्तं चतुर्द्दशयम-तर्पणञ्च कुर्य्यात् ॥
अथ श्रीपञ्चमी ।‘तत्रोभयदिने पूर्व्वाह्णे पञ्चमीलाभे पूर्व्वदिनेलक्ष्मीसरस्वत्योः पूजनं युग्मात् । एकदिनप्राप्तेतद्दिने । एवं षड्वर्षं शुक्लपञ्चमीव्रतेऽपि ।ततश्च ओँ तत् सदित्युच्चार्य्य ओँ मद्येत्यादि लक्ष्मी-प्रीतिकामो लक्ष्मीपूजनमहं करिष्ये इतिसङ्कल्प्य शालग्रामे जले वा पूजयेत् । ओँपाशक्षमालिकाम्भोजशृणिभिर्याम्यसौम्ययोः ।पद्मासनस्थां ध्यायेच्च श्रियं त्रैलोक्यमातरम् ॥
गौरवर्णां सुरूपाञ्च सर्व्वालङ्कारभूषिताम् ॥
रौक्मपद्मव्यग्रकरां वरदां दक्षिणेन तु ॥
इत्यनेन ध्यात्वा एतत् पाद्यं ओँ लक्ष्म्यै नमः ।इत्यादिना नैवेद्यान्तेन पूजयेत् ।ओँ नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ! ।या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्च्चनात् ॥
इत्यनेन पुष्पाञ्जलित्रयेण प्रणमेत् ॥
* ॥
ओँ तत्सदित्युच्चार्य्य ओमद्येत्यादि सरस्वतीप्रीतिकामःसरस्वतीपूजनमहं करिष्ये इति सङ्कल्प्य शाल-ग्रामे घटादिस्थजले वा पूजयेत् ।“ओँ तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिःकुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ।निजकरकमलोद्यल्लेखनीपुस्तकश्रीःसकलविभवसिद्ध्यै पातु वाग्देवता नः ॥
”इति ध्यात्वावाह्य एतत् पाद्यं ओँ सरस्वत्यै नमः ।इत्यादिना नैवेद्यान्तेन पूजयेत् । ततः“ओँ भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नभः ।वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च स्वाहा ॥
”इति ब्रह्मपुराणीयेन पुष्पाञ्जलिना त्रिः पूजयेत् ।मत्स्यसूक्ते । सरस्वतीं संपूज्य ।“ओँ यथा न देवो भगवान् ब्रह्मा लोकपिता-महः ।त्वां परित्यज्य सन्तिष्ठेत्तथा भव वरप्रदा ॥
वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत् ।न विहीनं त्वया देवि ! तथा मे सन्तु सिद्धयः ॥
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः ।एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति ! ॥
”इति मत्स्यपुराणीयैः प्रार्थ्य प्रणमेत् ॥
* ॥
“बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् ।आचारात् पुस्तकञ्च पूजयेत् । ओँ मस्याधारायनमः । इति मस्याधारं पूजयेत् । ओँ लेखन्यैनमः । इति लेखनीं पूजयेत् ॥
* ॥
अथ माघसप्तमी ।तत्रोभयदिने अरुणोदयकाले सप्तमीलाभे पूर्व्व-दिने एकदिने तल्लाभे तद्दिने । अरुणोदयकालेसामान्यजले ओँ अद्येत्यादिं सूर्य्यग्रहणकालीन-गङ्गास्नानजन्यफलसमफलप्राप्तिकाम आयुरा-रोग्यसम्पत्कामो वारुणोदयवेलायां स्नानमहंकरिष्ये । इति सङ्कल्प्य यथाविधि स्नानेतिकर्त्तव्यतां विधाय सप्तवदरपत्राणि सप्तार्क-पत्राणि च शिरसि निधाय ।“ओँ यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी ॥
”इत्युच्चार्य्य स्नायात् । ततो यथाकालं सप्त-वदरीफलार्कपत्रशालितिलदूर्व्वाक्षतचन्दनयुक्त-जलमादाय ओमद्येत्यादि आयुरारोग्यसम्पत्-कामः श्रीसूर्य्यायार्घ्यमहं ददे । इति सङ्कल्प्य‘ओँ नमो विवस्वते ब्रह्मन् भास्वते विष्णु तेजसेजगत्सवित्रे शुचये सवित्रे कर्म्मदायिने ॥
’इत्यनन्तरम् ।“ओँ जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके ।सप्तव्याहृतिके देवि ! नमस्ते रविमण्डले ॥
”इति प्रठित्वा इदमर्ध्यं श्रीसूर्य्याय नम इत्यर्घ्यंदत्त्वा ।“ओँ सप्तसप्तिवह प्रीत सप्तलोकप्रदीपन ।सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे ॥
इत्यनेन प्रणमेत् । शूद्रेणापि स्नाने तूष्णीं विधा-नात् स्नानमन्त्रं विना अर्घ्यप्रणाममन्त्राः पाठ्याःपौराणिकत्वात् । गङ्गायान्तु बहुशतसूर्य्यग्रहण-कालीनगङ्गास्नानजन्यफलसमफलप्राप्तिकामोगङ्गायां स्नानमहं करिष्ये इति वाक्ये विशेषः ।अत्रार्ध्यदानमङ्गं एतत् स्नानादेव माघप्रातः-स्नानं तन्त्रेणैव सिध्यति ॥
* ॥
अथ विधानसप्तमीव्रतम् ।प्रथमतो ब्राह्मणान् स्वस्तिवाच्य ओँ सूर्य्यः सोमइत्यादि पठित्वा ताम्रादिपात्रे कुशतिलजला-न्यादाय ओँ तत् सदित्युच्चार्य्य ओमद्य माघेमासि शुक्ले पक्षे सप्तम्यान्तिथावारभ्य प्रति-मासीयशुक्लसप्तम्यां पौषसप्तमीं यावत् आरो-ग्यसम्पत्कामोऽभीष्टतत्तत्फलकामो वा अर्का-ग्रादीतरभोजनविच्छित्तिविधानेन सप्तमीव्रत-महं करिष्ये इति सङ्कल्प्य संयमपारणसहितंतत्तन्मासि तत्तन्नियमं कुर्य्यात् । तत्र माघेअर्काग्रमात्रं भुञ्जीत । फाल्गुने अन्तरीक्ष-गृहीतं कपिलाविड्यवमात्रप्रमाणं तदभावेअन्यगोमयमपीति । चैत्रे मरीचमेकम् ।वैशाखे किञ्चिज्जलम् । ज्यैष्ठे अपक्वकदली-फलमध्यकणामात्रम् । आषाढे स्वच्छायद्बिगुण-समये यवप्रमाणं कुशमूलम् । श्रावणे नक्तंकाले अल्पहविष्यौदनम् । भाद्रे शुद्धोपवासः ।आश्वेने पञ्चमार्द्धयामे मयूराण्डप्रमाणं हवि-ष्यान्नम् । कार्त्तिके अर्द्धप्रसृतिमात्रं कपिला-क्षीरं तदभावे क्षारान्तरम् । मार्गशीर्षे प्राङ्-मुखो वाय्वशनम् । पौषे स्वल्पं घृतम् । तदन-न्तरञ्च ।“ब्राह्मणान्भक्षयेत् भक्त्या गुडक्षीरनिरामिषैः ।विप्राय दक्षिणा देया विभवस्यानुरूपतः ॥
अष्टम्यां पारणं कुर्य्यात् कट्वम्लरहितेन च ।मुद्गमाषतिलादीनि घृतञ्चैव विवर्ज्जयेत् ॥
एकसिद्धं भक्ष्यमुक्तमर्कतन्त्रानुसारतः ॥
”चान्द्रमासविशेषोल्लेखवत् अनन्तादिव्रतवत्-मलमासेतरे तत्तु कर्त्तव्यम् ॥
* ॥
अथारोग्यसप्तमी ।तत्र पूर्व्ववत् सप्तम्यान्तिथावारभ्य ऐहिकारोग्यधनधान्यपारलौकिकशुभस्थानप्राप्तिकामः संव-त्सरं यावत् आरोग्यसप्तमीव्रतमहं करिष्येइति सङ्कल्प्य प्रतिमासशुक्लसप्तम्यां शालग्रामेघटादिस्थजले वा पूजयेत् । रक्ताम्बुजासन-मिति ध्यात्वा एतत् पाद्यं ओँ सूर्य्याय नमइत्यादिभिः संपूज्य ।“आदित्य भास्कर रवे भानो सूर्य्य दिवाकर ।प्रभाकर नमस्तेऽस्तु रोगादस्मान् प्रमोचय ॥
”इति त्रिःपूजयेत् । एवं संवत्सरे पूर्णे दक्षिणांदद्यात् । ब्राह्मणांश्च भोजयेत् । विशेषमासानु-द्देशादमावास्याव्रतवत् मलमासेऽपि कर्त्तव्यम् ॥
अथ भीष्माष्टमी ।अष्टम्यां ब्राह्मणः पितृतर्पणं कृत्वा“ओँ वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च ।अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥
”इति पितृवत् भीष्मं तर्पयेत् ॥
ततः कृता-ञ्जलिः ।“भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः ।आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम् ॥
”इत्यनेन प्रार्थयेत् । क्षत्त्रियादिभिः पितृतर्पणात्पूर्व्वं एतत् कर्त्तव्यम् ॥
* ॥
भैम्यामेकादश्या-मुपोष्य द्बादश्यां तिलोद्बर्त्तनमावश्यकं कर्त्त-व्यम् । स्नानतर्पणमहादानभोजनादि यथा-लाभं कुर्य्यात् ॥
* ॥
माघपौर्णमास्यां युगाद्या-त्वेन पार्व्वणविधिना श्राद्धं कर्त्तव्यम् । अनन्त-फलकामनया स्नानदानञ्च कर्त्तव्यम् ।तस्यां दानप्रमाणन्तु तिथितत्त्वेऽनुसन्धेयम् ॥
इति कृत्यतत्त्वम् ॥
* ॥
* ॥
अथ माघस्नानफलम् ।“ब्रतदानैस्तपोभिश्च न तथा प्रीयते हरिः ।माघमज्जनमात्रेण यथा प्रीणाति केशवः ॥
न समं विद्यते किञ्चित् तेजः सौरेण तेजसा ।तद्बत् स्नानेन माघस्य न समाः क्रतुजाःक्रियाः ॥
प्रीतये वासुदेवस्य सर्व्वपापाद्विमुक्तये ।माघस्नानं प्रकुर्व्वीत स्वर्गलाभाय मानवः ॥
किं रक्षितेन देहेन सुपुष्टेन बलीयसा ।अध्रुवेणाशु हेयेन माघस्नानं विना भवेत् ॥
मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ ।कथं पापैः प्रसुच्येत कथं स त्रिदिवं व्रजेत् ॥
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।माघस्नायी विपापः स्यात्तत्सं सर्गी च पञ्चमः ॥
उपपातकानि सर्व्वाणि पातकानि महान्ति च ।भस्मीभवन्ति सर्व्वाणि माघस्नायिनि मानवे ॥
पावका इव दीप्यन्ते माघस्नाता नरोत्तमाः ।विमुक्ताः सर्व्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥
आर्द्रं शुष्कं लघु स्थूलं वाङ्मनःकर्म्मभिः कृतम् ।माघस्नानं दहेत् सर्व्वं पावकः समिधो यथा ॥
प्रामादिकञ्च यत् पापं ज्ञानाज्ञानकृतञ्च यत् ।स्नानमात्रेण तन्नश्येत् मकरस्थे दिवाकरे ॥
निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्ध-ताम् ।सन्देहोऽत्र न कर्त्तव्यो माघस्नाने नराधिप ! ॥
सर्व्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप ! ।सर्व्वेषां स्वर्गदो माघः सर्व्वेषां पापनाशनः ॥
एतदेव परो मन्त्रो ह्येतदेव परं तपः ।प्रायश्चित्तं परञ्चैव माघस्नानमनुत्तमम् ॥
नृणां जन्मान्तराभ्यासात् माघस्नानमतिर्भवेत् ।अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ! ॥
संसारकर्द्दमालेपप्रक्षालनविशारदम् ।पावनं पावनानाञ्च माघस्नानं परन्तप ! ॥
स्नाता माघे च ये राजन् ! सर्व्वकामफलप्रदे ।ते तांश्च भुञ्जते लोकांश्चन्द्रसूर्य्यग्रहोपमान् ॥
”इति श्रीपद्मपुराणे उत्तरखण्डे ४ अध्यायः ॥
वाचस्पत्यम्
SanskritCapeller
GermanBurnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
