| YouTube Channel

माक्षिकं (mAkSikaM)

 
शब्दकल्पद्रुमः
Sanskrit
माक्षिकं,
क्ली,
(मक्षिकाभिः कृतम् मक्षिका +“संज्ञायाम् ।” ११७ इति ठक् ।)मधु इत्यमरः १०७
नीलवर्ण-मध्यममक्षिकाकृततैलवर्णमधु अस्य गुणाः ।क्षौद्राल्लघुतरत्वम् रूक्षत्वम् श्रेष्ठत्वम् ।श्वासादिरोगे विशेषतः प्रशस्ततरत्वञ्च इतिराजवल्लमः
धातुविशेषः धातुमाखी इतिहिन्दीभाषा तद्द्विविधम् स्वर्णमाक्षिकंरौप्यमाक्षिकञ्च तत्पर्य्यायः माक्षीकम् २पीतकम् धातुमाक्षिकम् तापिच्छम् ५ताप्यकम् ताप्यम् आपीतम् पीत-माक्षिकम् आवर्त्तम् १० मधुधातुः ११ क्षौद्र-धातुः १२ माक्षिकधातुः १३ इति राज-निर्घण्टः
कदम्बः १४ चक्रनाम १५ अज-नामकम् १६ इति हेमचन्द्रः १२०
अस्य गुणाः मधुरत्वम् तिक्तत्वम् अम्ल-त्वम् कफभ्रमहृल्लासमूर्च्छार्त्तिश्वासकासविषा-पहत्वञ्च ।“माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकम् ।भिन्नवर्णविशेषत्वाद्रसवीर्य्यादिकं पृथक्
तारपादादिके तारमाक्षिकञ्च प्रशस्यते ।देहे हेमाभकं शस्तं रोगहृद्बलपुष्टिदम्
”इति राजनिर्घण्टः
अपि ।“लेखनो माक्षिको धातुः सुवर्णरजतद्युतिः ।जराजित् पाण्डुरोगघ्नः क्षयकुष्ठज्वरापहः
मधुरोऽम्लः कटुःपाके किञ्चिदुष्णोऽमृतोपमः
”इति कश्चिद्राजवल्लभः
(उपधातुविशेषः यथा, सुखबोधे ।“माक्षिकं तुत्थिताभ्रे नीलाञ्जनशिलालकाः ।रसकञ्चेति विज्ञेया एते सप्तोपधातवः
”)