| YouTube Channel

माकरी (mAkarI)

 
Apte Hindi
Hindi
माकरी
स्त्री*
- मकर + अण्
"मगरमच्छ से संबद्ध, माघ मास से संबद्ध"
Shabdartha Kaustubha
Kannada
माकरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಕರ ಮಾಸದಲ್ಲಿ ಬರುವ ಮಾಘ ಶುಕ್ಲ ಸಪ್ತಮಿ
निष्पत्तिः - > मकर - "अण्" (४-२-२१)
व्युत्पत्तिः - > मकरयुक्ता पौर्णमास्यत्र
प्रयोगाः - > १) "तन्मे रोगं शोकं माकरी हन्तुमर्हति" २) "माघे मासि सिते पक्षे सप्तमी कोटिभास्करा दद्यात् स्नानार्घ्यदानाभ्यामायुरारोग्यसम्पदः ॥"
उल्लेखाः - > भविष्यपु०
L R Vaidya
English
mAkara {% a. (f. री) %} Belonging to the sea-monster Makara.
Wordnet
Sanskrit
Synonyms:
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
noun
सा देवी यया नैके दैत्याः हताः तथा या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
शब्दकल्पद्रुमः
Sanskrit
माकरी,
स्त्री,
(मकरयुक्ता पौर्णमास्यत्रेति ।मकर + अण् + ङीष् ।) माघशुक्लसप्तमी अत्रस्नानादिविधिर्यथा भविष्ये ।“सूर्य्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी ।अरुणोदयवेलायां तस्यां स्नानं महाफलम्
माघे मासि सिते पक्षे सप्तमी कोटिभास्करा ।दद्यात् स्नानार्ध्यदानाभ्यामायुरारोग्यसम्पदः
अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समाः
”कोटिभास्करा कोटिसप्तमीतुल्या सप्तम्याभास्करदेवताकत्वात् सूर्य्यग्रहणफलं स्नान-जम् सन्निहिते बुद्धिरन्तरङ्गेतिन्यायात् ।तेन बहुशतसूर्य्यग्रहणकालीनगङ्गास्नानजन्य-फलसमफलमत्र ज्ञेयम्
*
स्नानपरिपाटीमाह कृत्यकल्पलतायां विष्णुः सप्तवदरपत्राणिसप्तार्कपत्राणि शिरसि निधाय, --“ओँ यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी
”इत्युच्चार्य्य स्नायादिति शेषः रोकं छिद्रम् ।तिथिकृत्यस्य पौर्णमास्यन्तमासाङ्गत्वात् माक-रीपदं मकरार्कारब्धचान्द्रमासीयतिथिपरम् ।तिथिकृत्ये कृष्णादिं व्रते शुक्लादिमेव ।विवाहादौ सौरादिं मासं कृत्ये विनिर्द्दिशे-दिति ब्रह्मपुराणात् मन्वन्तरादित्वेन तथायुक्तत्वाच्च यथा, मत्स्यपुराणम् ।“यस्मान्मन्वन्तरादौ तु रथमापुर्दिवाकराः ।माघमासस्य सप्तम्यां तस्मात् सा रथसप्तमी
अरुणोदयवेलायां तस्यां स्नानं महाफलम् ।”अतएव नारसिंहे रथाख्यायामित्युक्तम्
*
अर्घ्यदानपरिपाटी यथा, --“अर्कपत्रैः सवदरैर्द्दूर्व्वाक्षतसचन्दनैः ।अष्टाङ्गविधिनाचार्य्यं दद्यादादित्यतुष्टये ।अष्टाङ्गमर्ध्यमापूर्य्य भानोर्मूर्द्ध्नि निवेदयेत्
अर्घ्यमन्त्रस्तु ।जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके ।सप्तव्याहृतिके देवि नमस्ते रविमण्डले
प्रणाममन्त्रस्तु ।सप्तसप्तिवह प्रीत सप्तलोकप्रदीपन ।सप्तम्याञ्च नमस्तुभ्यं नमोऽनन्ताय वेधसे
”इति तिथ्यादितत्त्वम्
*
तस्यां सूर्य्यमुद्दिश्य रथयात्राफलं यथा, --“माघमासस्य सप्तम्यां देवं शाम्बपुरं नराः ।रथयात्रां प्रकुर्व्वन्ति सर्व्वद्वन्द्वविवर्जिताः
गच्छन्ति तत्पदं शान्तं सूर्य्यमण्डलभेदकम् ।एतत्ते कथितं देवि ! साम्बशापसमुद्भवम् ।पापप्रशमनाख्यानं महापातकनाशनम्
”इति वराहपुराणम्
वाचस्पत्यम्
Sanskrit
माकरी स्त्री मकरस्य तत्स्थरविककालस्य इयम् अण् म-करस्थितरविककाले तदारब्धमाघमासस्य शुक्लसप्तम्यां“तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी” ति० त०