| YouTube Channel

मांसाष्टका (mAMsASTakA)

 
Monier Williams Cologne
English
मांसाष्टका
f.
N.
of the 8th day in the dark half of the month Māgha (on which meat or flesh is offered to deceased ancestors),
Col.
Wordnet
Sanskrit
Synonyms:
मांसाष्टका
noun
माघमासस्य कृष्णपक्षे वर्तमाना अष्टमी।
"रोहितः मांसाष्टकायां जातः।"
शब्दकल्पद्रुमः
Sanskrit
मांसाष्टका,
स्त्री,
(मांसेन सम्पाद्या अष्टका ।मांसप्रधाना अष्टका वा ।) गौणचान्द्रमाघ-कृष्णाष्टमी तत्र मांसोपकरणकश्राद्धमाबश्य-कम् यथा अथाष्टकाश्राद्धम् ।“पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव ।कृष्णपक्षे वरिष्ठा हि पूर्व्वा चैन्द्री विभाव्यते
प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेवकी ।आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा
शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः
”मूले प्रधानस्थाने अमावास्या हि श्राद्धस्यप्रधानकालः तद्वदिति यावत् ऐन्द्री साग्ने-रिन्द्रदेवताकयागसम्बन्धात् एवं प्राजापत्यावैश्वदेवकी मांसैः पशोः तथा चगोभिलः यद्युवाल्पतरसंभारः स्यात् तदापशुनैव कुर्य्यादिति यद्युवेति निपातसमुदायोयद्यर्थे पशुरपि छाग एव छागोऽनादेशेपशुरिति गोतमात् तैष्या ऊर्द्धं अष्टम्यांगौरिति गोभिलसूत्रेण गवोपदेशात् कथमनु-पदिष्टत्वमिति वाच्यम् तदसम्भवे पशुने-त्यनेन यः पशुरुपदिष्टस्तस्य विशेषतोऽनुप-दिष्टत्वात् वस्तुतस्तु हरिवंशे मृगोऽपिविहितः ।“इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ।मांसमानय श्राद्धाय मृगं हत्वा महाबल !
”इत्यादिना मृगमांसबोधनात्
पश्वभावे स्थाली-पाकेन यथा, गोभिलः अपि वा स्थाली-पाकं कुर्व्वीतेति तद्विधानन्तु ।“स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकम् ।श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु
”इति छन्दोगपरिशिष्टीयं ग्राह्यम्
अन्वितिओदनचरोः पश्चात् अतएव ।“पितरः स्पृहयन्त्यन्नमष्टकासु मघासु ।तस्माद्दद्यात् सदा युक्तो विद्वत्मु ब्राह्मणेषु
”इति शातातपेनोक्तम्
तस्मादन्नं प्रधानंपूपादिकन्तु उपकरणत्वेन शक्तानामावश्यकंसदेति श्रवणात् इति श्राद्धतत्त्वम्