| YouTube Channel

मांसं (mAMsaM)

 
Apte 1890
English
मांसं [मन्-स दीर्घश्च Uṇ. 3. 64] 1 Flesh, meat
समांसो मधुपर्कः U. 4. (The word is thus fancifully derived in Ms. 5. 55:
पां भक्षयिताऽपुत्र यस्य मांसमिहाद्म्यहम् एतन्मांसस्य मांसत्वं प्रवदंति मनीषिणः ॥).
2 The flesh of fish.
3 The fleshy part of a fruit.
सः 1 A worm.
2 N. of a mixed tribe, selling meat.
3 A worm.
4 Time.
Comp.
अद,
अद,
आदिन्,
भक्षक a. flesh-eating, carnivorous (as an animal)
Bk. 16. 29, Ms. 5. 15.
अर्गलः,
लं a piece of flesh hanging down from the mouth.
अर्बुदः, दं a kind of disease of the membrum virile.
अशनं {1} flesh-meat. {2} flesheating.
अष्टका N. of the eighth day in the dark half of Māgha.
आहारः animal food.
इष्टा a kind of bird (वल्गुला).
उपजीविन् m. a dealer in flesh.
ओदनः {1} a meal of flesh. {2} rice boiled with flesh.
कच्छ पः a fleshy abscess on the palate.
कंदी a swelling of the flesh.
कारिन् n. blood.
ग्रंथिः a gland.
जं,
तेजस् n. fat, adeps.
तानः a polypus in the throat.
द्राविन् m. a kind of sorrel.
निर्यासः the hair of the body.
पः a Piśāca or demon.
पचनं a vessel for cooking meat.
पटकः,
कं {1} a basket of flesh. {2} a large quantity of flesh.
पित्तं a bone.
पेशी {1} a muscle. {2} a piece of flesh. {3} an epithet of the fœtus from the 8th to the 14th day.
फला the egg plant.
भेत्तृ,
भेदिन् a. cutting the flesh.
योनिः a creature of flesh and blood.
रसः soup.
लता a wrinkle.
विक्रयः sale of meat.
सारः,
स्नेहः fat.
हासा skin.
शब्दकल्पद्रुमः
Sanskrit
मांसं,
क्ली,
(मन्यते इति मनज्ञाने + “मने-र्दीर्घश्च ।” उणा० ६४ इति सः दीर्घश्च ।)रक्तजधातुविशेषः मास् इति भाषा
तुगर्भस्थबालकस्याष्टभिर्मासैर्भवति इति सुख-बोधः
भागवतमते चतुभिर्मासैर्भवति तत्प-र्य्यायः पिशितम् तरसम् पललम् क्रव्यम्५ आमिषम् पलम् इत्यमरः ६३
अस्रजम् जाङ्गलम् कीरम् १० सर्व्वसांस-गुणाः वातनाशित्वम् वृष्यत्वम् बल्य-त्वम् रुच्यत्वम् बृंहणत्वम् देशस्थानसात्म्य-संस्थास्वभावैर्भूयो नानारूपत्वञ्च
*
प्रसह-भूशयानूपवारिजवारिचारिमांसगुणाः गुरु-त्वम् उष्णत्वम् मधुरत्वम् स्निग्धत्वम् ।वातघ्नत्वम् शुक्रवर्द्धनत्वञ्च
*
विष्किर-प्रतुदजाङ्गलमांसगुणाः लघुत्वम् शीतत्वम् ।मधुरत्वम् कषायत्वम् नृणां हितत्वञ्च
*
अङ्गविशेषमांसगुणाः ।‘एकदेहेऽपि पूर्व्वार्द्धं मृगाणां पक्षिणां परम् ।सर्व्वेषाञ्च शिरस्कन्धप्लीहचर्म्मयकृद्गुदम्
पादपुच्छान्तमस्तिष्कमुष्कक्रोडाश्च मेहनाः ।धातवः शोणिताद्याश्च गुरवः स्युर्य्यथोत्तरम्
’प्रशस्ताप्रशस्तमांसं यथा, --‘वयस्थं निर्व्विषं सद्योहतं मांसं प्रशस्यते
मृतञ्च व्याधितं व्युष्टं वृद्धं बालं विषैर्हतम् ।अगोचरहतं व्याडसूदितं मांसमुत्सृजेत्
’अष्टविधा मांसयोनिर्यथा प्रसहाः प्रसह्य-भक्षणात् कुररश्येनादयः भूशयाः विल-शायित्वात् नकुलगोधादयः आनूपाः ३खड्गमहिषवराहादयः जलजाः कुम्भीरादयः जलेचराः हंसवकप्रभृतयः ।जाङ्गलाः हरिणच्छागादयः विष्किराः ७विकीर्णचरणात् तित्तिरमयूरकुक्कुटादयः ।प्रतुदाः प्रतुद्यचरणात् कपोतपारावतादयः ।इति राजनिर्घण्टः
*
अपि ।‘मांसं वातहरं सर्व्वं बृंहणं बलपुष्टिकृत् ।प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः
*
अथ तद्भेदाः ।‘मांसवर्गो द्बिधा ज्ञेयो जाङ्गलानूपभेदतः
’तत्र जाङ्गलस्य लक्षणं गुणाश्च ।‘मांसवर्गोऽत्र जङ्घाला विलस्थाश्च गुहाशयाः ।तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदा अपि
प्रसहा अथच ग्राम्या अष्टौ जाङ्गलजातयः ।जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा
बल्यास्ते बृंहणा वृष्या दीपना दोषहारिणः ।मूकतां मिन्मिनत्वञ्च गद्गदत्वार्द्दिते तथा
वाधिर्य्यमरुचिं छर्द्दिप्रमेहमुखजान् गदान् ।श्लीपदं गलगण्डञ्च नाशयन्त्यनिलामयान्
*
अथानूपस्य लक्षणं गुणाश्च ।‘कूलेचराः प्लवाश्चापि कोषस्थाः पादिनस्तथा ।मत्स्या एते समाख्याताः पञ्चधानूपजातयः
आनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः ।श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशम्
तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाःस्मृताः
*
अथ जाङ्गलानां गणना विशिष्टा गुणाश्च ।‘हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः ।राजीवोऽपि मुण्डी चेत्याद्या जाङ्गल-संज्ञकाः
हरिणस्ताम्रवर्णःः स्यादेणः कृष्णः प्रकीर्त्तितः ।कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान्
ऋष्यो नीलाण्डको लोके सरोरु इति कीर्त्तितः ।पृषतश्चन्द्रबिन्दुः स्याद्धरिणात् किञ्चिदल्पकः
न्यङ्कुर्व्वहुविषाणोऽथ शम्बरो गवयो महान् ।राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः
यो मृगः शृङ्गहीनः स्यात् मुण्डीति निगद्यते ।जङ्घालाः प्रायशः सर्व्वे पित्तश्लेष्महराः स्मृताः ।किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः
’अथ विलेशयानां गणना गुणाश्च ।‘गोधाशशभुजङ्गाखुशल्लक्याद्या विलेशयाः ।विलेशया वातहरा मधुरा रसपाकयोः ।वृंहणा बद्धविण्मूत्रा वीर्य्योष्णा अपि कीर्त्तिताः
अथ गुहाशयानां गणना गुणाश्च ।‘सिंहव्याघ्रवृका ऋक्षतरक्षुद्बीपिनस्तथा ।बभ्रुजम्बुकमार्ज्जारा इत्याद्यास्तु गुहाशयाः
स्थूलपुच्छो रक्तनेत्रो बभ्रुभेदः सनाकुलः ।गुहाशया वातहरा गुरूष्णमधुराश्च ते ।स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविका-रिणाम्
’अथ पर्णमृगाणां गणना गुणाश्च ।‘वनौकोवृक्षमार्ज्जारवृक्षमर्कंटिकादयः ।एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः
स्मृताः पर्णमृगा वृष्याश्चक्षुष्याः शोषिणेहिताः ।श्वासार्शःकाशशमनाः सृष्टमूत्रपुरीषकाः
’अथ विष्किराणां गणना गुणाश्च ।‘वर्त्तकालावविकिरकपिञ्जलकतित्तिराः ।कुलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः
विकीर्य्य भक्षयन्त्येते यस्मात् तस्माद्धि विष्किराः ।कपिञ्जला इति प्राज्ञैः कथिता गौरतित्तिराः
विष्किरा मधुराः शीताः कषायाः कटुपाकिनः ।बल्या वृष्यास्त्रिदोषघ्नाः पथ्यास्ते लघवःस्मृताः
’अथ प्रतुदानां गणना गुणाश्च ।‘कालकण्ठकहारीतकपोतशशपत्रकाः ।सारिका खञ्जरीटश्च पिकाद्याः प्रतुदाः स्मृताः
प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः ।कपोतो धवलः पाण्डुः शतपत्रो बृहच्छुकः ।प्रतुदा मधुराः पित्तकफघ्नास्तु वरा हिमाः ।लघवो बद्धवर्च्चस्काः किञ्चिद्वातकराः स्मृताः
’अथ प्रसहानां गणना गुणाश्च ।‘काको गृध्र उलूकश्च चिल्लश्च शशघातकः ।चाषो भाषश्च कुरर इत्याद्याः प्रसहाः स्मृताः ।प्रसहाः कीर्त्तिता एते प्रसह्याच्छिद्य भक्षणात् ।प्रसहाः खलु वीर्य्योष्णाः षण्मासं भक्षयन्ति ये
ते शोषभस्मकोन्मादैः शुक्रक्षीणा भवन्ति हि
’शशघातकस्थाने शतघातकोऽपि पाठः वाजइति लोके
*
अथ ग्राम्याणां गणना गुणाश्च ।‘छागमेषबृषाश्वाद्या ग्राम्याः प्रोक्ता महर्षिभिः ।ग्राम्या वातहराः सर्व्वे दीपनाः कफपित्तलाः ।मधुरा रसपाकाभ्यां बृंहणा बलवर्द्धनाः
’अथ कूलेचराणां गणना गुणाश्च ।‘लुलापगण्डवाराहचमरीवारणादयः ।एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यमी
कूलेचरा मरुत्पित्तहरा वृष्या बलावहाः ।मधुराः शीतलाः स्निग्धा मूत्रलाः श्लेष्मवर्द्धनाः
’अथ प्लवानां गणना गुणाश्च ।‘हंससारसकाचाक्षवकक्रौञ्चसरारिकाः ।नन्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः ।प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः
स्थूला कठोरा वृत्ता यस्याश्चञ्चूपरिस्थिता ।गुटिका चञ्चुसदृशी ज्ञेया नन्दीमुखीति सा
प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः ।वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः
’अथ कोषस्थानां गणना गुणाञ्च ।‘शङ्खः शङ्खनखश्चापि शुक्तिशम्बूककर्कटाः ।जीवा एवम्बिधाश्चान्ये कोषस्थाः परिकीर्त्तिताः
कोषस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः ।बृंहणा बहुवर्च्चस्का वृष्याश्च बलवर्द्धनाः
’अथ पादिनां गणना गुणाश्च ।‘कुम्भीरकूर्म्मनक्राश्च गोधामकरशङ्कराः ।घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः
पादिनोऽपि ये ते तु कोषस्थानां गुणैः समाः
’इति भावप्रकाशः
अन्यच्च ।मांसं वातहरं वृष्यं वृं हणं बलवर्द्धनम् ।प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः
’तस्योत्पत्तिस्थानमष्टविधं यथा, --‘प्रसह्य भक्षयन्त्यते प्रसहास्तेन कीर्त्तिताः ।भूशया बिलशायित्वादानूपोऽनूपसंश्रयात्
जले निवासाज्जलजा जले चर्य्याज्जलेचराः ।स्थलजा जाङ्गलाः प्रोक्ता मृगा जङ्गलचारिणः
विकीर्य्य विष्किराश्चैव प्रतुद्य प्रतुदास्तथा ।योनिरष्टविधा ह्येषां मांसानां संप्रकीर्त्तिता
’‘प्रसहा भूशयानूपवारिजा वारिचारिणः ।गुरूष्णमधुराः स्निग्धा वातघ्नाः शुक्रवर्द्धनाः
लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ।लघवः शीतमधुराः सकषाया हिता नृणाम्
’अथ भांसयूषगुणाः ।‘रसो मांसस्य चक्षुष्यो वृं हणः प्राणवर्द्धनः ।वृष्यो वातविकारघ्नः स्मृत्योजःस्वरवर्द्धनः ।भग्नविश्लिष्टसन्धीनां क्षतानां व्रणिनां हितः
’अथ तैलपक्वमांसगुणाः ।‘मांसं यत्तलसंसिद्ध्वं वीर्य्योष्णं पित्तलं कटु ।अग्निसन्दीपनं रुच्यं दृष्टिनुत् पुष्टिनुद्गुरु
’घृतपक्वमांसगुणाः ।‘मांसन्तु घृतसंसिद्धं दृष्टिदं पुष्टिनुल्लघु ।प्रीणनं सर्व्वधातूनां विशेषान्मुखशोषिणाम्
’परिशुष्कप्रदिग्धमांसयोर्लक्षणं गुणाश्च ।मांसं बहुघृते भृष्टं सिक्त्रा चोष्णाम्बुना मुहुः ।जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ।पित्तघ्नं बलमेधाग्निमांसौजःशुक्रवर्द्धनम्
तदेव घनतक्राठ्यं प्रदिग्धं सत्त्रिजातकम् ।प्रदिग्धं बलमांसाग्निवर्द्बनं वातपित्तजित्
शूलिकापक्वमांसगुणाः ।‘मांसन्तु शूलिकाप्रोतमङ्गारेण विपाचितम् ।ज्ञेयं गुरुतरं वृष्यं दीप्ताग्नीनां सदा हितम्
’वेशवारमांसस्य लक्षणं गुणाश्च ।‘निरस्थि पिशितं पिष्टं सिद्धं गुडघृतान्वितम् ।कृष्णामरिचसंयुक्तं वेशवार इति स्मृतम्
वेशवारो गुरुः स्निग्धो बलोपचयवर्द्धनः ।द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः ।तस्य तस्य तयोश्चैतद्गुणदोषैर्व्विभावयेत्
’एकत्र सर्व्वमांसभक्षणदोषो यथा, --‘एकत्र सर्व्वमांसानि विरुध्यन्ते परस्परम्
’मांसस्य गुरुत्वं यथा, --‘अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ।पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ।घृतादष्टगुणं तैलं मर्द्दनान्न भक्षणात्
’इति राजवल्लभः
वर्ज्जनीयमांसानि यथा, --‘क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् ।सारसैकशफान् हंसान् बलाकावकटिट्टिभान्
कुररं जालपादञ्च खञ्जरीटमृगद्बिजान् ।चासान् मात्स्यान् रक्तपादान् जग्ध्वा वैकामतो नरः
बन्धुरं कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ।’इति गारुडे ९६ अध्यायः
मांसभक्षणे दोषो यथा, --‘लोभात् स्वभक्षणार्थाय जीविनं हन्ति यो नरः ।मज्जाकुण्डे वसेत् सोऽपि तद्भोजी लक्षवर्षकम्
ततो भवेत् शशको मीनश्च सप्तजन्मसु ।तृणादयश्च कर्म्मभ्यस्ततः शुद्धिं लभेद्ध्रुवम्
’इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः
अपि ।‘बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा ।कुररञ्च चकोरञ्च जालपादञ्च कोकिलम्
चाषञ्च खञ्जरीटञ्च श्येनं गृध्रं तथैव ।उलूकं चक्रवाकञ्च भाषं पारावतन्त्वपि
कपोतं टिटिकञ्चैव ग्रामटिट्टिभमेव ।सिंहव्याघ्रञ्च मार्ज्जारं श्वानं शूकरमेव
शृगालं मर्कटञ्चैव गर्द्दभञ्च भक्षयेत् ।न भक्षयेत् सर्व्वमृगान् पक्षिणोऽन्यान् वने-चरान्
जलेचरान् स्थलेचरान् प्राणिनश्चति धारणा
’इति कूर्म्मपुराणे उपविभागे १६ अध्यायः
अन्यच्च ।‘नाद्यादविधिना मांसं विधिज्ञो नापदि द्बिजः ।जग्ध्वा ह्यविधिना मांसं प्रेत्य तैरद्यतेऽवशः
तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।यादृशं भवति प्रेत्य वृथामांसानि खादतः
कुर्य्याद्घृतपशुं साङ्गं कुर्य्यात् पिष्टपशुं तथा ।न त्वेव तु वृथा हन्तुं पशुमिच्छेत् कदाचन
यावन्ति पशुरोमाणि तावत्कृत्वो मारणम् ।वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।न प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्ज्जयेत्
समुत्पत्तिञ्च मांसस्य वधबन्धौ देहिनाम् ।प्रसमीक्ष्य निवर्त्तेत सर्व्वमांसस्य भक्षणात्
भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।स लोकप्रियतां याति व्याधिभिश्च पीड्यते
स्वमांसं परमांसेन यो वर्द्धयितुमिच्छति ।अनभ्यर्च्च्य पितॄन् देवान् ततोऽन्यो नास्त्य-पुण्यकृत्
वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।मांसानि खादेद्यस्तयोः पुण्यफलं समम्
फलमूलाशनैर्मेध्यैर्मुन्यन्नानाञ्च भोजनैः ।न तत्फलमवाप्नोति यन्मांसपरिवर्ज्जनात्
मांसभक्षयितामुत्र यस्य मांसमिहाद्म्यहम् ।एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः
यो यस्य मांसमश्नाति तन्मांसाद उच्यते ।मत्स्यादः सर्व्वमांसादस्तस्मान्मत्स्यान् विव-र्ज्जयेत्
’इति मानवे अध्यायः
अन्यच्च श्रीभागवतपञ्चमस्कन्धगद्यम् ‘ये त्विहवै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रियोनृपशून् खादन्ति तांश्च ताश्च ते पशवो इहनिहता यमसदने यातयन्तो रक्षोगणाः ।शौनिका इव सुधितिना वदायासृक पिबन्तीति
’ब्रह्मपुराणम् ।‘पशोस्तु मार्य्यमाणस्य मांसं ग्राहयेत् क्वचित् ।पृष्ठमांसं गर्भशय्यां शुष्कमांसमथापि वा
’महाभारतम् ।‘रोगार्त्तोऽभ्यर्थितो वापि यो मांसं नात्त्य-लोलुपः ।फलमाप्नोत्ययत्नेन सोऽश्वमेधशतस्य
’नन्दिपुराणम् ।‘यश्चोपदेशं कुरुते परस्य तु महात्मनः ।मांसस्य वर्ज्जनफलं सोऽमांसादफलं लभेत्
’भविष्यपुराणम् ।‘आमिषं रक्तशाकञ्च यो भुङ्क्ते रवेर्द्दिने ।सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते
’विष्णुपुराणम् ।चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव
स्त्रीतैलमांससंभोगी पर्व्वस्वेतेषु वै पुमान् ।विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः
’इति तिथ्यादितत्त्वम्
अथ मांसभक्षणविधिः ।‘श्राद्धे देवान् पितॄन् प्रार्च्च्य खादन् मांसंन दोषभाक् ।वसेत् नरके घोरे दिनानि पशुरोमभिः
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ।मांसं संत्यज्य संप्राप्य कामान् याति ततोहरिम्
’इति गारुडे ९६ अध्यायः
अपि ।‘गोधा कूर्म्मः शशः खड्गी शल्यकश्चेतिसत्तमाः ।भक्ष्यान् पञ्चनखान्नित्यं मनुराह प्रजापतिः
मत्स्यान् सशल्कान् भुञ्जीत मांसं रौरवमेव ।नवेद्य देवताभ्यश्च ब्राह्मणेभ्यश्च नान्यथा
मायूरं तैत्तिरञ्चैव कपोतञ्च कपिञ्जलम् ।वार्द्धीनसं वकं भक्ष्यं नीलहंसं पराजिताः
सफरः सिंहतुण्डश्च तथा पाठीनरोहितौ ।मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः
प्रोक्षितं भक्षयेदेषां मांसञ्च द्बिजकाम्यया ।यथाविधिनियुक्तश्च प्राणानामपि चात्यये
भक्षयन्नपि मांसानि शेषभोजी लिप्यते ।औषधार्थमशक्तौ वा नियोगाद्यज्ञकारणात्
आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।यायन्ति पशुरोमाणि तावतो नरकान् व्रजेत्
इति कूर्म्मपुराणे उपविभागे १६ अध्यायः
अपि ।मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्ज्जने ।प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च काम्यया
यथाविधिनियुक्तश्चु प्राणानामेव चात्यये ।प्राणस्थान्नमिदं सर्व्वं प्रजापतिरकल्पयत्
स्थावरं जङ्गमञ्चैव सर्व्वं प्राणस्य भोजनम् ।चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः
अहस्ताश्च सहस्तानां शूराणाञ्चैव भीरवः ।नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि
धात्रैव सृष्टा ह्याद्याश्च प्राणिनोत्तार एव ।यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः
अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ।क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा ।देवान् पितॄनर्च्चयित्वा खादन् मांसं दुष्यति
नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः ।स प्रेत्य पशुतां याति सम्भवानेकविंशतिम्
मांसभक्षणे दोषो मद्ये मैथुने ।प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला
’इति मानवे अध्यायः
*
देवीपुराणम् ।‘अष्टमीं समुपोष्यैव नवम्यामपरेऽहनि ।मत्स्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् ।तेनैव विधिनान्नन्तु स्वयं भुञ्जीत नान्यथा
याज्ञवल्क्यः ।‘प्राणात्यये तथा श्राद्धे प्रोक्षितं द्बिजकाम्यया ।देवान् पितॄन् समभ्यर्च्च्य खादन् मांसं नदोषभाक्
’यमः ।‘भक्षयेत् प्रोक्षितं मांसं सकृत् ब्राह्मणकाम्यया ।दैवे नियुक्तः श्राद्धे वा नियमे विवर्ज्जयेत्
’इति तिथ्यादितत्त्वम्
*
भाक्तामिषं यथा, --‘गोवर्ज्ज्यमामिषं क्षीरं फले जम्बीरमामिषम् ।आमिषं रक्तशाकञ्च सर्व्वञ्च दग्धमामिषम्
’गोवर्ज्ज्यमामिषं क्षीरमित्यत्र पत्राणामामिषंपर्णमिति पाठः इति कर्म्मलोचनः
(अस्योत्पत्तिर्यथा, --‘रसाद्रक्तं ततो मांसं मांसान् मेदः प्रजायते
’इति सुश्रुते सूत्रस्थाने १४ अध्याये
)