| YouTube Channel

महौजाः (mahaujAH)

 
शब्दकल्पद्रुमः
Sanskrit
महौजाः, [स्] त्रि, अतितेजोयुक्तः महदोजोयस्येतिविग्रहे बहुब्रीहौ प्रथमैकवचने अत्वसो-ऽधावित्यनेन दीर्घे कृते महौजा इतिपदंनिष्पन्नम्
(यथा, मनौ ६१ ।“स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौ-जसः
”कालेयपुत्त्रासुरविशेषः यथा, महाभारते१ ६७ ५३ ।“पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः ।महौजा इति विख्यातो बभूवेह परन्तपः
”)