| YouTube Channel

महोक्षः (mahokSaH)

 
Apte Hindi
Hindi
महोक्षः
पुं*
महा-उक्षः -
"(‘उक्षन्’ के स्थान पर) महाकाय बैल, हृष्टपुष्ट बैल "
वैजयन्तीकोषः
Sanskrit
Word: महोक्षः
Root: महोक्ष
Gender: पुं
Number: all
अर्थः महावृषभः
Meaning(s):
Large ox or bull
Shloka(s):
3|4|55|1 महोक्षः स्यादुक्षतरो वृद्धोक्षस्तु जरद्गवः। (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
Synonym(s):
3|4|55|1 महोक्षः (महोक्ष) (पुं) Large ox or bull महावृषभः
3|4|55|1 उक्षतरः (उक्षतर) (पुं) Large ox महावृषभः
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
महोक्षः,
पुं,
(महान् उक्षा “अचतुरविचतु-रेति ।” ७७ इति समासान्तः अच् ।निपातितश्च ।) बृहद्वृषः इत्यमरः ।६१
तत्पर्य्यायः वृषभः वृषः पुङ्गवः ४बली गोनाथः ऋषभः गोप्रियः ८उक्षा गोपतिः १० इति राजनिर्घण्टः
(यथा, कथासरित्सागरे ६० ६६ ।“महोक्षः त्वया दृष्टः संस्तवश्च कृतो यदि ।तदिहानय तं युक्त्या तावत् पश्यामिकीदृशः
”)