| YouTube Channel

महीध्रः (mahIdhraH)

 
Apte Hindi
Hindi
महीध्रः
पुं*
मही-ध्रः -
पहाड़
महीध्रः
पुं*
मही-ध्रः -
विष्णु का विशेषण
Wordnet
Sanskrit
Synonyms:
पर्वतः, महीध्रः, शिखरी, क्ष्माभृत्, अबार्यः, धरः, अद्रिः, गोत्रः, गिरिः, ग्रावा, अचलः, शैलः, शिलोच्चयः, स्थावरः, सानुमान्, पृथुशेखरः, धरणीकीलकः, कुट्टारः, जीमूतःधातुभृत्, भूधरः, स्थिरः, कुलीरः, कटकी, शृङ्गी, निर्झरी, अगः, नगः, दन्ती, धरणीध्रः, भूभृत्, क्षितिभृत्, अवनीधरः, कुधरः, धराधरः, प्रस्थवान्, वृक्षवान्
noun
भूमेः अत्युन्नतभागः
"कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।"
शब्दकल्पद्रुमः
Sanskrit
महीध्रः,
पुं,
(महीं धरतीति धृ + कः ।)पर्व्वतः इत्यमरः
(यथा, श्रीभागवते ३२ ।“गौपैर्मखे प्रतिहते ब्रजविप्लवायदेवेऽभिवर्षति पशून् कृपया रिरक्षुः ।धर्त्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त-वर्षो महीध्रमनघैककरे सलीलम्
”महीं धरति उद्धरतीति धृ + कः महेरु-द्धर्त्ता यथा, तत्रैव १३ २६ ।“उत्क्षिप्तबालः खचरः कठोरःसटा विधुन्वन् खररोमशत्वक् ।खुराहताभ्रः सितदंष्ट्र ईक्षा-ज्योतिर्बभासे भगवान् महीध्रः
”“महीध्रः पृथिव्या उद्धर्त्ता ।” इति तट्टीकायांस्वामी
)
कृदन्तरूपमाला
Sanskrit
1 {@“धृञ् धारणे”@} 2 ‘धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, दिधीर्षकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिधरतिकवत् 4 ज्ञेयानि।
5 युगन्धाः- 6 जलन्धरः-पुरन्धरः-श्रुतन्धरः-वसुन्धरा, 7 धनुर्धरा, 8 महीध्रः 9, 10 कर्णधारः, 11 आधारः, 12 धारा, 13 धारयः 14 , 15 धारयन्, 16 धुरन्धरः, धर्मः
इमानि रूपाणि अधिकान्यत्रेति विशेषः।
अस्य धातोः उभयपदित्वात् शतरि--धरन्-न्ती, धरिष्यन्-न्ती-ती, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(९१७)
02
=>
(१-भ्वादिः-९००। सक। अनि। उभ।)
03
=>
(श्लो। २९)
04
=>
(९१३)
05
=>
[[५। ‘संज्ञायां भृतॄवृजिधारिसहितपिदमः’ (३-२-४६) इति कर्मण्युपपदे ण्यन्तात् खच्- प्रत्ययः। युगं धारयतीति युगन्धरः = पर्वतविशेषः। ‘खचि ह्रस्वः’ (६-४-९४) इति ह्रस्वः, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। एवं जलन्धरः, पुरन्धरः, श्रुतन्धरः, वसुन्धरा इत्यादिषु ज्ञेयम्।]]
06
=>
[पृष्ठम्०८०९+ ३०]
07
=>
[[१। धनुर्धरा इत्यत्रापि खजेव। अजन्तत्वाभावात् मुमागमो न।]]
08
=>
[[२। महीं धरतीति महीध्रः = पर्वतः। एवं कुध्रः इत्यपि। ‘कप्रकरणे मूलविभु- जादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कप्रत्यये पृषोदरादित्वात् उपधालोपे साधुः।]]
09
=>
[[आ। ‘यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान् पटहप्रणादः।’ शि। व। ३। २४।]]
10
=>
[[३। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपम्। एवं सूत्रधारः इत्यादिष्वप्यण्।]]
11
=>
[[४। ‘ºअवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति संज्ञायां घापवादो घञ्।]]
12
=>
[[५। ‘धारा प्रपाते’ (ग। सू। ३-३-१०३) इति भिदादिपाठादङ्। ‘ऋदृशोऽङि--’ (७-४-१६) इति गुणः। निपातनाद् दीर्घः। अन्यत्र धृतिः इत्येव।]]
13
=>
[[६। ‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’ (३-१-१३८) इत्यादिना ण्यन्तादस्मात् शप्रत्ययः। गुणायादेशौ। कर्तरि प्रत्ययोऽयम्।]]
14
=>
[[B। ‘सुखजातः सुरापीतो नृजग्धो माल्यधारयः।’ भ। का। ५। ३८।]]
15
=>
[[७। ण्यन्तादस्मात्, ‘इङ्धार्योः शत्रकृच्छ्रिणि’ (३-२-१३०) इति शता। ‘धारयन् पारायणम्’ इत्यत्र क्लेशं विना धारणस्य द्योतनात् शता। कृच्छ्रार्थे तु धारयमाणः इति शानजेव।]]
16
=>
[[८। धुरं धरतीत्यर्थे संज्ञात्वाभावेऽपि बाहुलकात् खचि, ‘वाचंयमपुरन्दरौ च’ (६-३-६९) इत्यत्र चकारात् अमागमः इति प्र। सर्वस्वे।]]