महिषासुर (mahiSAsura)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishApte Hindi
Hindiमहिषासुरः
महिष-असुरः -
महिष नाम का राक्षस
Shabdartha Kaustubha
Kannadaमहिषासुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಹಿಷನೆಂಬ ರಾಕ್ಷಸ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritमहिषासुरः, (महिष एव महिषाख्यो वाअसुरः ।) रम्भासुरपुत्त्रः । तस्य उत्पत्तिर्यथा, --श्रीऔर्व्व उवाच“आराधिता महादेवो रम्भेण सुरवैरिणा ।चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥
अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् ।प्रीतोऽस्मि ते वरं रम्भ ! वरयस्व यथेप्सितम् ॥
एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् ॥
अपुत्त्रोऽहं महादेव ! यदि ते मय्यनुग्रहः ।मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर ! ॥
अवध्यः सर्व्वभूतानां जेता च त्रिदिवौकसाम् ।चिरायुश्च यशस्वी च लक्ष्मीवान् सत्यसङ्गरः ॥
एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः ।भवत्वेतद्वाञ्छितन्ते भविष्यामि सुतस्तव ॥
इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत ।रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलो-चनः ॥
पथि गच्छन् स रम्भोऽथ ददृशे महिषींशुभाम् ।त्रिहायणीं चित्रवर्णां सुन्दरीं ऋतुशालिनीम् ॥
स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः ।दोर्भ्यां गृहीत्वा च तदा चकार सुरतोत्सवम् ॥
तयोः प्रवृत्ते सुरते सा तदा तस्य तेजसा ।दधार महिषी गर्भं तदाभून्महिषासुरः ॥
तस्यां स्वाङ्गेषु गिरिशस्तत्पुत्त्रत्वमवाप्तवान् ।ववृधे स तदा वाग्भिः शुक्लपक्षे समुद्रवत् ॥
”तस्य योषिद्वध्यत्वं यथा, --“तन्तु कात्यायनमुनिः शप्तवान् महिषासुरम् ।दुर्णयं वीक्ष्य शिष्यार्थे शिष्यानुग्रहकारकः ॥
कात्यायनेन शप्तं तं विज्ञाय महिषासुरम् ।प्राह प्रणयपूर्व्वन्तु चण्डिकां चन्द्रशेखरः ॥
”ईश्वर उवाच ।“देवि ! कात्यायनेनापि शप्तोऽयं महिषा-सुरः ।योषिद्विनाशकर्त्त्रीति भवितेति जगन्मयि ! ।निःसंशयमृषेर्व्वाक्यं भविष्यति न संशयः ॥
मदीयो माहिषः कायस्त्वया देवि ! जगन्मयि ! ।हन्तव्यः सततं योगयुक्तः पूर्व्वे परेऽपि च ॥
हरिर्हरिस्वरूपेण त्वां वोढुमक्षमोऽधुना ।ममायं माहिषः कायस्तव वोढा भविष्यति ॥
इति पूर्व्वं महादेवो देवीं प्रार्थितवान् पुरा ॥
तेन देवी महादेवं जग्राह महिषासुरम् ॥
त्रिषु जन्मसु पुत्त्रोऽभूत् रम्भस्य भगवान्शिवः ।सृष्टित्रयं स रम्भोऽपि रम्भ एव व्यजायत ॥
असुरस्तादृशस्तेपे तपः परमदारुणम् ।तथैवाराधितः शम्भुः पुत्त्रार्थे प्रददौ वरम् ॥
तथैव महिषीं भेजे प्रथमं सुरताय सः ।तस्यां तथाभवद्वीरो दानवो महिषासुरः ।तथैव शेपे भगवान् मुनिः कात्यायनस्तु तम् ॥
इति प्रवृत्ते पूर्व्वस्मिन् परस्मिन् स तु जन्मनि ।महिषः पूजयित्वाथ देवीं वरमयाचत ॥
तृतीये जन्मनि वरं प्राप्य कल्पानशेषतः ।नेह मे जन्म भवितेत्येवं वरमयाचत ॥
तेन देवीपदतले तिष्ठत्येषोऽसुरोऽधुना ।नोत्पत्तिरपि तस्यास्ति संवर्त्तांस्तान् बहून्नृप ! ॥
एवं देवीप्रसादेन महादेवाङ्गसम्भवः ।परामवाप सततं प्रतिपत्तिं महासुरः ॥
इति ते कथितं राजन् ! यथा स महिषा-सुरः ।देवीपादतलं प्राप्य यथा सोऽद्यापि मोदते ॥
”इति कालिकापुराणे ५९ अध्यायः ॥
* ॥
अपि च ।नारद उवाच ।“कश्चासौ महिषो नाम रक्तबीजादयश्च के ।कासौ कात्यायनी नाम या जघ्ने महिषा-सुरम् ।एतान् विस्तरतस्तात ! यथावद्वक्तुमर्हसि ॥
”पुलस्त्य उवाच ।“श्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम् ।सर्व्वदा वरदा दुर्गा सेयं कात्यायनी मुने ! ॥
सुरासुरवरौ रौद्रौ जगत्क्षोभकरावुभौ ।रम्भश्चैव करम्भश्च द्वावास्तां सुमहाबलौ ॥
तावपुत्त्रौ च देवर्षे ! पुत्त्रार्थं तेपतुस्तपः ।बहुवर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले ॥
तत्रैको जलमध्यस्थो द्बितीयोऽप्यग्निपञ्चमी ।करम्भश्चैव रम्भश्च यक्षं मालवटं प्रति ॥
एकं निमग्नं सलिले ग्राहरूपेण वासवः ।चरणाभ्यां समादाय निजघान यथेच्छया ॥
ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः ।वह्रौ स्वशीर्षं संछिद्य होतुमैच्छन्महाबलः ॥
ततः प्रगृह्य केशेषु खड्गञ्च रविसंप्रभम् ।छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः ॥
उत्तिष्ठासुर ! मा मैवं नाशयात्मानमात्मना ।दुस्तरा परवध्यापि स्ववध्याप्यतिदुस्तरा ॥
यच्च प्रार्थयसे वीर ! तद्ददामि यथेप्सितम् ।मा म्रियस्व मृतस्येह नष्टा भवति वै कथा ॥
ततोऽब्रवीद्वचो रम्भो वरं चेन्मे ददासि हि ।त्रैलोक्यविजयी पुत्त्रः स्यान्मे त्वत्तेजसाधिकः ॥
अजेयो दैवतैः सर्व्वैः पुंभिर्द्दैत्यैश्च पावक ! ।महाबलो वायुरिव कामरूपी कृतास्त्रवित् ॥
तं प्रोवाच कविर्ब्रह्मन् ! वाढमेवं भविष्यति ।यस्यां चित्तं समालम्बि करिष्यसि ततोऽसुर ! ॥
इत्येवमुक्तो देवेन वह्निना दानवो ययौ ।यष्टुं मुनिवटं याक्षं यक्षैश्च परिवारितम् ॥
तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः ।गजाश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः ॥
तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः ।महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन ! ॥
समागच्छच्च दैत्येन्द्रं कामयन्ती तरस्विनी ।स चाभिगमनं चक्रे भवितव्यप्रचोदितः ॥
तस्यां समभवद्गर्भस्तां प्रगृह्याथ दानवः ।पातालं प्रविवेशाथ ततः स्वभवनं गतः ॥
दृष्टश्च दानवैः सर्व्वैः परित्यक्तश्च बन्धुभिः ।अकार्य्यं कारयत्येवं भूयो मालवटं गतः ॥
सापि तेनैव पतिना महिषी चारुदर्शना ।समं जगाम तत्पुण्यं यक्षमण्डलमुत्तमम् ॥
ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने ! ।अजीजनत् सुतं शुभ्रं महिषं कामरूपिणम् ॥
इति वामनपुराणे १७ अध्यायः ॥
* ॥
अन्यच्च । धरण्युवाच ।“या सा माया शरीरात्तु ब्रह्मणोऽव्यक्तजन्मनः ।गायत्त्र्यष्टभुजा भूत्वा चैत्रासुरमयोधयत् ॥
सैव नन्दाभवद्देवी देवकार्य्यचिकीर्षया ।महिषाख्यासुरवधं कुर्व्वती ब्रह्मणेरिता ॥
वैष्णव्या च हतो देव ! कथमेतद्धि संशयः ॥
वराह उवाच ।इयं जगद्धिता देवी गङ्गा शङ्करसुप्रिया ।क्वचित् किञ्चित् भवेद्वृत्तं सपदं वेद सर्व्ववित् ।स्वायम्भुवे हतो दैत्यो वैष्णव्या मन्दरे गिरौ ॥
महिषाख्योऽपरः पश्चात् स वै चैत्रासुरः पुनः ।नन्दया निहतो बिन्ध्ये महाबलपराक्रमः ॥
अथवा ज्ञानशक्तिः सा महिषोऽज्ञान-मूर्त्तिमान् ।अज्ञानं ज्ञानसाध्यन्तु भवतीति न संशयः ॥
मूर्त्तिपक्षे चेतिहासममूर्त्ते चैकवद्धृदि ।ख्यायते वेदवाक्यैस्तु इह सा वेदवादिभिः ॥
”इति वराहपुराणम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
