| YouTube Channel

महिषाक्षः (mahiSAkSaH)

 
शब्दकल्पद्रुमः
Sanskrit
महिषाक्षः,
पुं,
(महिषस्य अक्षीवेति “अक्ष्णो-ऽदर्शनात् ।” ७६ इति समासान्तोऽच् ।)गुग्गुलुः इति राजनिर्घंण्टः
(तथास्यपर्य्यायः ।“जटाषुः कालनिर्य्यासः कौशिको गुग्गुलुःपुरः ।देवधूपः सर्व्वसहो महिषाक्षः पलङ्कषा
”इति वैद्यकरत्नमालायाम्
अस्य व्यवहारविषयो यथा, --“महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ ।विशेषेण मनुष्याणां कनकः परिकीर्त्तितः
कदाचिन्महिषाक्षश्च यतः कैश्चिन्नृणामपि
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)