| YouTube Channel

महिषमर्द्दिनी (mahiSamarddinI)

 
शब्दसागरः
English
महिषमर्द्दिनी
f.
(-नी) The goddess DURGĀ.
E.
महिष the ASURA so
named, and मर्द्दिनी destructress.
Yates
English
महिष-मर्द्दिनी (नी) 3.
f.
Durgā.
Wilson
English
महिषमर्द्दिनी
f.
(-नी) The goddess DURGĀ.
E.
महिष the Asura so named, and मर्द्दिनी destructress.
शब्दकल्पद्रुमः
Sanskrit
महिषमर्द्दिनी,
स्त्री,
(महिषं महिषाख्यमसुरंमृद्नातीति मृद् + णिनिः ङीप् ।) दुर्गा ।इति शब्दरत्नावली
अस्या मन्त्रा यथा, शार-दायाम् ।“भान्तं वियत् सनयनं श्वेतो मर्द्दिनि ठद्वयम् ।अष्टाक्षरी समाख्याता विद्या महिषमर्द्दिनी
”नारायणीतन्त्रे ।“विषं हि मज्जा कालोऽग्निरद्रिरिस्थो निठ-द्बयम्
”विषं मकारः हि स्वरूपम् मज्जा षकारः ।कालो मकारः अग्नी रेफः अद्रिर्द्दकारः ।इस्थ इति वचनादिकारयुक्तो दकारः अयंमन्त्रस्तारादिर्मायादिः कामादिर्वाग्भवादि-र्व्वधूबीजादिः कवचादिश्च नवाक्षरः तथा चविश्वसारे ।“प्रणवाद्यां जपेद्बिद्यां मायाद्यां वा जपेत् सुधीः ।बधूबीजादिकां वापि कवचाद्यां जपेत्तथा
सर्व्वकालेषु सर्व्वत्र कामाद्यां प्रजपेत् सुधीः ।वाग्भवाद्यां जपेत्तान्तु देवीं वाक्यविशुद्धये
अस्या ध्यानम् गारुडोपलसन्निभां मणिमय-कुण्डलमण्डितां नौमि भालविलोचनां महिषो-त्तमाङ्गनिषेदुषीम् शङ्खचक्रकृपाणखेटकबाण-कार्मुकशूलकान् तर्ज्जनीमपि बिभ्रतीं निज-बाहुभिः शशिशेखराम्
इति तन्त्रसारः