| YouTube Channel

महिषकन्दः (mahiSakandaH)

 
शब्दकल्पद्रुमः
Sanskrit
महिषकन्दः,
पुं,
(महिषाख्यया प्रसिद्धः कन्दः ।)महाकन्दविशेषः तत्पर्य्यायः शुभ्रालुः २लुलापकन्दः शुक्लकन्दः महिषीकन्दः ।अस्य गुणाः कटुत्वम् उष्णत्वम् कफवाता-मयापहत्वम् मुखजाड्यहरत्वम् रुच्यत्वम् ।असितश्चेत् महासिद्धिकरत्वञ्च इति राज-निर्घण्टः