| YouTube Channel

महाहविः (mahAhaviH)

 
शब्दकल्पद्रुमः
Sanskrit
महाहविः, [स्]
क्ली,
(महत् सुप्रशस्तं हविः ।)गव्यघृतम् यथा, --“गयायामथवा पिण्डं खड्गमांसं महाहविः ।कालशाकं तिलाज्यं वा कृशरं मासतृप्तये
”इति मार्कण्डेयपुराणे श्राद्धकल्पः
(तदात्मतया सर्वं जगत् हूयतेऽस्मिन् यद्बा, महान्ति हवींषि आज्यपुरोडाशादिरूपा-ण्यस्य ।) विष्णुः
इति महाभारते तस्यसहस्रनामस्तोत्रम्
(महान्तिहवींष्यत्र ।बृहद्यागविशेषः यथा, शतपथब्राह्मणे ।५ २० ।“अथातो महाहविष एव तद् यथा महा-विषस्तथो तस्य
”“साकमेधेषु प्रधानभूताया महाहविराख्यायाइष्टेरारम्मं प्रतिजानीते अथात इति ।” इतितद्भाष्यम्
”)