| YouTube Channel

महासाहसिकः (mahAsAhasikaH)

 
Apte Hindi
Hindi
महासाहसिकः
पुं*
महा-साहसिकः -
"डाकू, बटमार, साहसी लुटेरा"
शब्दकल्पद्रुमः
Sanskrit
महासाहसिकः, त्रि, (महानतिशयः साह-सिकः ।) चौरः इति केचित्
अतिसाहस-युक्तश्च बलपूर्व्वापहारकः यथा, --“चाटतस्करदुर्व्वृत्तमहासाहसिकादिभिः ।पीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः
”इति याज्ञवल्क्यवचनम्
चाटाः प्रतारकाः विश्वास्य ये परधनमप-हरन्ति प्रच्छन्नापहारिणः तस्कराः दुर्व्वृत्ताःइन्द्रजालिककितवादयः सहो बलं सहसाबलेन कृतं साहसं महच्च तत् साहसञ्च महा-साहसं तेन वर्त्तन्त इति महासाहसिकाःप्रसह्यापहारिणः इति मिताक्षरायामाचा-राध्यायः