| YouTube Channel

महासान्तपनं (mahAsAntapanaM)

 
शब्दकल्पद्रुमः
Sanskrit
महासान्तपनं,
क्ली,
(महत् सान्तपनम् ।)व्रतविशेषः यथा अथ महासान्तपनम् ।तत्र द्व्यहसाध्यसान्तपनमुक्त्वा याज्ञवल्क्यः ।“पृथक्सान्तपनैर्द्रव्यैः षडहः सोपवासकः ।सप्ताहेनैव कृच्छ्रोऽयं महासान्तपनः स्मृतः
एतत् सप्ताहसाध्यम् जावालः ।“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।एकैकं क्रमशोऽश्नीयादहोरात्रमभोजनम्
कृच्छ्रः सान्तपनो नाम सर्व्वपापप्रणाशनः ।एकैकमेतदेवं हि त्रिरात्रमुपयोजयेत्
त्र्यहञ्चोपवसेदन्त्यं महासान्तपने विधिः
”एतत् सप्ताहसाध्यसान्तपनमुक्त्वा एकविंशति-दिनसाध्यं महासान्तपनमुक्तम् महासान्त-पनं धेनुषट्कदानसमम् जावालोक्तमहा-सान्तपनस्य एकविंशतिदिनसाध्यत्वेन सप्ताह-साध्यसान्तपनात् त्रिगुणत्वान्महासान्तपने धेनु-षट्कं देयम् इति प्रायश्चित्तविवेकः