| YouTube Channel

महाश्रावणिका (mahAzrAvaNikA)

 
Monier Williams Cologne
English
महा—श्रावणिका
f.
a species of medicinal drug,
L.
शब्दकल्पद्रुमः
Sanskrit
महाश्रावणिका,
स्त्री,
(महती चासौ श्रावणिकाच ।) क्षुपविशेषः वड थुलकुडी इतिभाषा तत्पर्य्यायः महामुण्डी लोचनी ३कदम्बपुष्पी विकचा क्रोडा चोडा ७पलङ्कषा नदीकदम्बः मुण्डाख्या १० महा-मुण्डनिका ११ माता १२ स्थविरा १३ लोतनी१४ भूकदम्बः १५ अलम्बुषा १६ अस्य गुणाः ।उष्णत्वम् तिक्तत्वम् ईषन्मधुरत्वम् वायु-शमनत्वम् स्वरकृत्त्वम् रेचनत्वम् हेम-कृत्त्वम् रसायनत्वञ्च इति राजनिर्घण्टः
तत्पर्य्यायगुणाः ।“मुण्डी भिक्षुरपि प्रोक्तः श्रावणी तपोधना ।श्रवणाह्वा मुण्डितिका तथा श्रवणशीर्षिका
महाश्रावणिकान्या तु सा स्मृता भूकदम्बिका ।कदम्बपुष्पिका स्यादव्यथा तु तपस्विनी
मुण्डितिका कटुः पाके वीर्य्योष्णा मधुरा लघुः ।मेध्या गण्डापचीकृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत्
श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्त्तिहृत् ।महामुण्डी मुण्डी गुणैरुक्ता महर्षिभिः
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
महाश्रावणिका स्त्री कर्म० (थुलकुडी) क्षुपभेदे राजनि०