| YouTube Channel

महाव्रतं (mahAvrataM)

 
शब्दकल्पद्रुमः
Sanskrit
महाव्रतं,
क्ली,
(महच्च तद्व्रतञ्चेति ।) द्बादश-वार्षिकव्रतम् यथा ‘तेन वधकालादूर्द्ध्वंविंशत्यधिकशतस्य यावदवशिष्टं तावत्परि-माणमहाव्रतानुरूपा धेनवो दातव्याः ।’ इतिप्रायश्चित्तविवेके भवदेवभट्टमतम्
शरत्-कालीनदुर्गापूजनम् यथा, --“महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ।कर्त्तव्यं मुरराजेन्द्र ! देवीभक्तिसमन्वितैः
”इति तिथ्यादितत्त्वधृतदेवीपुराणवचनम्
अरुणोदयकालीनमाघस्नानम् यथा, --“वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः
दिवाकर ! जगन्नाथ ! प्रभाकर ! नमोऽस्तु ते ।परिपूर्णं कुरुष्वेद माघस्नानं महाव्रतम्
”इति मलमासतत्त्वधृतपद्मपुराणवचनम्
(महाव्रतधारिणि, त्रि यथा, महाभारते ।१३ ५४ २१ ।“ततोऽन्यस्मिन् वनोद्देशे पुनरेव ददर्श तम् ।कौश्यां वृष्यां समासीनं जपमानं महा-व्रतम्
”)