| YouTube Channel

महावीर्य्यः (mahAvIryyaH)

 
शब्दकल्पद्रुमः
Sanskrit
महावीर्य्यः,
पुं,
(महत् विश्वसृष्टये विपुलं वीर्य्य-मस्य ।) ब्रह्मा इति शब्दरत्नावली
(महत्वीर्य्यं तपोबलमस्य ।) बुद्धभेदः इति त्रिकाण्ड-शेयः
वाराहीकन्दः इति राजनिर्घण्टः
(वितथस्य पुत्त्रभेदः यथा, भागवते ।२१ ।“वितथस्य सुतान्मन्योर्बृहत् क्षत्त्रो जयस्ततः ।महावीर्य्यो नरो गर्गः संकृतिस्तु नरात्मजः
”)अतिशयबलयुक्ते, त्रि
(यथा, महामारते ।५ १७६ ४६ ।“ततः किल महावीर्य्यो भीष्मः शान्तनवोनृपान् ।अधिक्षिप्य महातेजास्त्रिस्रः कन्या जहारताः
”विराजः पुत्त्रः यथा, विष्णुपुराणे ३९ ।“नरो गयस्य तनयस्तत्पुत्त्रोऽभूद्विराट् ततः ।तस्य पुत्त्रो महावीर्य्यो धीमांस्तस्मादजायत
”)