| YouTube Channel

महाविष्णुः (mahAviSNuH)

 
शब्दकल्पद्रुमः
Sanskrit
महाविष्णुः,
पुं,
(महांश्चासौविष्णुः सर्व्वव्यापकश्चेति ।)महाविराट् यथा ‘यस्या जले कोटिकोटि-ब्रह्माण्डानि महाविष्णुरोमकूपगतानि तस्याविरजायाः परिखाभूताया उपरि महावैकुण्ठ-लोकः तस्योर्द्धभागे गोलोकः तस्य नाथःकृष्णो देवलीलः परिवारेण वर्त्तते इतिभागवतामृतकणिका श्रीकृष्णस्य कला-विशेषः यथा, --“विष्णुर्महान् इह यस्य कलाविशेषोगोविन्दमादिपुरुषं तमहं भजामि
”इति भागवतामृतपूर्व्वखण्डः