| YouTube Channel

महाविषुवं (mahAviSuvaM)

 
शब्दकल्पद्रुमः
Sanskrit
महाविषुवं,
क्ली,
(विषु साम्यमस्त्यत्रेति विषु +“वप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम् ।”५ १०९ इत्यस्य वार्त्तिकात् वप्रत्ययः ।महच्च तत् विषुवञ्चेति अस्मिन् समये दिवा-रात्र्योः समत्वात्तथात्वम् ।) मेषसंक्रान्तिः ।यथा, --“महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम्
”इति शब्दरत्नावली
तस्मिन् मसूरनिम्बपत्रद्वयभक्षणम् यथा, कृत्य-चिन्तामणौ ।“मसूरं निम्बपत्राभ्यां योऽत्ति मेषगते रवौ ।अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति
”तत्र शक्त्वादिदानं यथा, --“मेषादौ शक्तवो देया वारिपूर्णा गर्गरी
”वारिपूर्णघटदानमन्त्रादि यथा, --“एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।अस्य प्रदानात् सफला मम सन्तु मनोरथाः
वैशाखे यो घटं पूर्णं सभोज्यं वै द्बिजन्मने ।ददाति सुरराजेन्द्र ! याति परमां गतिम्
”महार्णवे ।“यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् ।पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते
”तत्र छत्रपादुकादानं यथा, “विप्रेभ्यः पादुकाच्छत्रं पितृभ्यो विषुवे शुभम् ।”पितृभ्यः पितॄनुद्दिश्येत्यर्थः इति तिथ्यादि-तत्त्वम्