| YouTube Channel

महाविराट् (mahAvirAT)

 
शब्दकल्पद्रुमः
Sanskrit
महाविराट्, [ज्]
पुं,
(विशेषेण राजते प्रकाशते ।इति वि + राज् + क्विप् महांश्चासौ विराट्चेति ।) महाविष्णुः यथा, --मुनिरुवाच ।“विश्वानां गोलोकं राजन् ! विस्तृतञ्च नभः-समम् ।शश्वन्नित्यं डिम्बरूपं श्रीकृष्णेच्छासमुद्भवम्
जलेन परिपूर्णञ्च कृष्णस्य मुखबिन्दुना ।सृष्ट्युन्मुखस्यादिसर्गे परिश्रान्तस्य क्रीडतः
प्रकृत्या सह युक्तेन कलया निजया नृप ! ।तत्राधारो महद्बिष्णोर्विश्वाधारस्य विस्तृतः
प्रकृतीगर्भसंभूतडिम्बोहूतस्य भूमिप ! ।सुविस्तृते जलाधारे शयानश्च महान् विराट्
राधेश्वरस्य कृष्णस्य षोडशांशः प्रकीर्त्तितः ।दूर्व्वादलश्यामरूपः सस्मितश्च चतुर्भुजः ।वनमालाधरः श्रीमान् शोभितः पीतवाससा
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः