| YouTube Channel

महालक्ष्मीः (mahAlakSmIH)

 
शब्दकल्पद्रुमः
Sanskrit
महालक्ष्मीः,
स्त्री,
(महती लक्ष्मोः ।) राधा ।नारायणशक्तिः यथा, --“यन्मायया मोहिताश्च ब्रह्मविष्णुशिवादयः ।वैष्णवास्तां महालक्ष्मीं परां राधां वदन्ति ते
यदर्द्धाङ्गा महालक्ष्मीः प्रिया नारायणस्यच
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः
अथ महालक्ष्मीमन्त्रः ।“तारो वाग्भवं माया रमाकामः हसौ-र्ज्जगत्प्रसूत्यै नमः
”तथा ।“वाग्भवं शम्भुवनिता रमा मकरकेतनः ।तार्त्तीयञ्च जगत्पार्श्वो वह्निबीजसमुज्ज्वलः
अर्घीशाढ्यो भृगुस्त्यैहृम्मन्त्रोऽयं द्वादशाक्षरः ।महालक्ष्म्याः समुद्दिष्टस्ताराद्यः सर्व्वसिद्धिदः
”तस्या ध्यानं यथा, तन्त्रसारे ।“बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारो-ज्ज्वलांरत्नाकल्पविभूषितां कुचनतां शालेः करैर्म्मञ्ज-रीम् ।पद्मौ कौस्तुभरत्नमप्यविरतं संबिभ्रतीं सस्मितांफुल्लाम्भोजविलोचनत्रययुतां ध्यायेत् परा-मम्बिकाम्
”(अस्या बीजम् ओँ ऐँ ह्नीँ श्रीँ क्लीँ ह्सौँजगत्प्रसूत्यै नमः ।)