| YouTube Channel

महारात्रिः (mahArAtriH)

 
Apte Hindi
Hindi
महारात्रिः
स्त्री*
महा-रात्रिः -
"‘महाविघटन’ ब्रह्मा की जीवन समाप्ति पर विश्व का पूर्ण विनाश जबकि अपने अधिवासियों सहित समस्त लोक, देव, सन्त, ऋषि आदि स्वयं ब्रह्मा समेत सभी विनाश को प्राप्त हो जाते हैं"
शब्दकल्पद्रुमः
Sanskrit
महारात्रिः,
स्त्री,
(महत्यां प्रलयावस्थायां रातिआत्मस्वरूपं ददाति सुप्तशक्त्या सर्व्वान् जीवा-नात्मरूपेणावस्थापयति त्रायते पञ्चपर्व्वलक्ष-णाया अविद्याया सकाशात् रक्षतीति त्रै +इ ।) ब्रह्मलयोपलक्षिता महाप्रलयरात्रिः ।इति चण्डीटीकायां नागोजीभट्टः
महतईश्वरस्य रात्रिः ब्रह्ममरणोपलक्षिता रात्रि-रित्यर्थः इति देवीमाहात्म्यटीकायां विद्या-विनोदः
अपि ।“ब्रह्मणाञ्च निपाते महाकल्पो भवेन्नृप ! ।प्रकीर्त्तिता महारात्रिः सा एव पुरातनैः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे अध्यायः
(दुर्गा यथा मार्कण्डेये ८१ २० ।“महारात्रि ! महाविद्ये ! नारायणि ! नमो-ऽस्तु ते
”)अर्द्धरात्रात् परं मुहूर्त्तद्वयम् यथा, --“अर्द्धरात्रात् परं यच्च मुहूर्त्तद्बयमुच्यते ।सा महारात्रिरुदिता तद्दत्तमक्षयं भवेत्
”इति तन्त्रम्
आश्विनशुक्लाष्टमी नवरात्रम् यथा, --“शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै ।महारात्रिर्महेशानि ! कालरात्रिं शृणुप्रिये !
”इति शक्तिसङ्गमतन्त्रम्