महाराजोपचारः (mahArAjopacAraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमहाराजोपचारः, (महाराजार्थ उपचारः ।महाराजानामुपचारो वा ।) राजार्हपूजोप-करणम् । तद्यथा, --“ततश्च चामरच्छत्रपादुकादीन् परानपि ।महाराजोपचारांश्च दत्त्वादर्शं प्रदर्शयेत् ॥
”विष्णुधर्म्मोत्तरे ।“यथादेशं यथाकालं राजलिङ्गं सुरालये ।दत्त्वा भवति राजैव नात्र कार्य्या विचारणा ॥
”तत्र चामरमाहात्म्यं विष्णुधर्म्मोत्तरे ।‘तथा चामरदानेन श्रीमान् भवति भूतले ।मुच्यते च तथा पापैः स्वर्गलोकञ्च गच्छति ॥
’छत्रस्य तत्रैव ।‘छत्रं बहुशलाकञ्च झल्लरीवस्त्रसंयुतम् ।दिव्यवस्त्रैश्च संयुक्तं हेमदण्डसमन्वितम् ॥
यः प्रयच्छति कृष्णस्य छत्रलक्षायुतैर्वृतः ।प्रार्थ्यते सोऽमरैः सर्व्वैः क्रीडते पितृभिः सह ॥
’तत्रैवान्यत्र ।‘राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्बिजो-त्तमाः ।नाप्नोति रिपुजं दुःखं संग्रामे रिपुजिद्भवेत् ॥
’‘उपानत्संप्रदानेन विमानमधिरोहति ।यथेष्टं तेन लोकेषु विचरत्यमरप्रभः ॥
’ध्वजस्य तत्रैव ।‘लोकेषु ध्वजभूतः स्याद्दत्त्वा विष्णोर्वरं ध्वजम् ।शक्रलोकमवाप्नोति बहूनब्दगणान्नरः ॥
’किञ्च ।‘युक्तं पीतपताकाभिर्निवेद्य गरुडध्वजम् ।केशवाय द्बिजश्रेष्ठाः शक्रलोके महीयते ॥
यत्प्रासादे ध्वजारोपमाहात्म्यं लिखितं पुरा ।तदत्राप्यखिलं ज्ञेयं तत्रात्रत्यमिदन्तथा ॥
’किञ्च । भविष्ये ।‘विष्णोर्ध्वजे तु सौवर्णदण्डं कुर्य्याद्विचक्षणः ।पताका चापि पीता स्यात् गरुडस्य समीपगा ॥
व्यजनस्य । विष्णुधर्म्मोत्तरे ।‘तालवृन्तप्रदानेन निर्वृतिं प्राप्नुयात् पराम् ॥
’वितानस्य तत्रैव ।‘वितानकप्रदानेन सर्व्वपापैः प्रमुच्यते ।परां निर्वृतिमाप्नोति यत्र यत्राभिजायते ॥
’खड्गादीनाम् ।‘दत्त्वा निस्त्रिंशकान् मुख्यान् शत्रुभिर्नाभि-भूयते ।दत्त्वा तद्वन्धनं मुख्यमग्न्याधेयफलं लभेत् ॥
’किञ्च ।‘पतद्ग्रहं तथा दत्त्वा शुभगस्त्वभिजायते ।पादपीठप्रदानेन स्थानं सर्व्वत्र विन्दति ॥
’‘दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् ।मार्ज्जयित्वा तथा तञ्च सुभगस्त्वभिजायते ॥
यत्किञ्चिद्देवदेवाय दद्याद्भक्तिसमन्वितः ।तदेवाक्षयमाप्नोति स्वर्गलोकं स गच्छति ॥
’किञ्च । वामनपुराणे श्रीबलिं प्रति प्रह्लादोक्तौ ।‘श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्द्दनम् ।वलिदानानि दीयन्ते अक्षयाणि विद्रुर्बुधाः ॥
अत्रापि केचिदिच्छन्ति दत्त्वा पुष्पाञ्जलित्रयम् ।पूर्व्वोक्ता दश शङ्खाद्या मुद्राः सन्दर्शयेदिति ॥
”इति श्रीहरिभक्तिविलासे ८ विलासः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
