| YouTube Channel

महाराजचूतः (mahArAjacUtaH)

 
शब्दकल्पद्रुमः
Sanskrit
महाराजचूतः,
पुं,
(महता मिष्टादिगुणेन राजतेआद्रियते इत्यच् ततः कर्म्मधारयः ।) उत्त-माम्रः तत्पर्य्यायः महाराजाम्रकः स्थूलाम्रः३ मन्मथानन्दः कङ्कः नीलकपित्थकः ६कामायुधः कामफलः राजपुत्त्रः नृपा-त्मजः १० महाराजफलः ११ कामः १२ महा-चूतः १३ कोमलस्य तस्य गुणाः कटुत्वम् ।अम्लत्वम् पित्तदाहदातृत्वञ्च सुपक्वस्य तस्यगुणाः स्वादुत्वम् मधुरत्वम् पुष्टिवीर्य्यबल-प्रदत्वञ्च इति राजनिर्घण्टः