| YouTube Channel

महामोह (mahAmoha)

 
Monier Williams Cologne
English
महा—मोह
m.
great confusion or infatuation of mind,
Pur.
Rājat.
&c.
Apte Hindi
Hindi
महामोहः
पुं*
महा-मोहः -
मन का भारी आकर्षण
Shabdartha Kaustubha
Kannada
महामोह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅರುಳು-ಮರುಳು /ಬುದ್ಧಿನಾಶ /ಅವಿವೇಕ /ಅಜ್ಞಾನ
व्युत्पत्तिः - > महान् मोहः
प्रयोगाः - > "वत्स, मया महामोहस्य विवेकसकाशादत्याहितं श्रुतम् तेन तद्वृत्तान्तं प्रत्येतुमागतोऽस्मि"
उल्लेखाः - > प्रबोध०
महामोह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಷಯೇಚ್ಛೆ /ಸುಖಾನುಭವದ ಆಸೆ
विस्तारः - > "तमोऽविवेको मोहः स्यात् अन्तःकरणविभ्रमः महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा"
शब्दकल्पद्रुमः
Sanskrit
महामोहः,
पुं,
(मोहः भ्रान्तिज्ञानम् अतथाभूतेवस्तुनि तथात्वज्ञानमित्यर्थः महान् मोहः ।)भोगेच्छारूपाज्ञानम् इति केचित्
संसार-मूलकारणरागरूपमोहः (महान् मोहोयस्मादिति ।) महामोहजनककामराज-बीजम् इति चण्डीप्रथममाहात्म्यटीकायांनागोजीभट्टः
अपि ।“ससर्ज्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् ।महामोहञ्च मोहञ्च तमश्चाज्ञानवृत्तयः
”इति श्रीभागवते स्कन्धे १२ अध्यायः
अग्र इति ब्रह्मा स्वसृष्टौ प्रथममविद्यासृष्टीःससर्ज्ज तत्र तमो नाम स्वरूपाप्रकाशः ।मोहो देहाद्यहंबुद्धिः महामोहो भोगेच्छा ।तामिस्रः तत्प्रतिघाते क्रोधः अन्धतामिस्रःतन्नाशे अहमेव मृतोऽस्मीति बुद्धिः तदे-वोक्तं वैष्णवे ।“तमोऽविवेको मोहः स्यादन्तःकरणविभ्रमः ।महामोहश्च विज्ञेयो ग्राम्यभोगसुखैषणा
मरणं ह्यन्धतामिस्रं तामिस्रं क्रोध उच्यते ।अविद्या पञ्चपर्व्वा या प्रादुर्भूता महात्मनः
”इति तट्टीकायां श्रीधरस्वामी
वाचस्पत्यम्
Sanskrit
महामोह
पु०
महान् मोहः म्नान्तिहेतुकी वस्तुतोऽनिष्टे-ष्वपि रागः संसारतद्विषयकारणरूपेऽज्ञानभेदे “तमोऽविवेको मोहः स्यादन्तःकरणविभ्रमः महामोहस्तुविज्ञेयो ग्राम्यभोगसुखैषणा” इत्युक्ते मैथुनादिसुखभोगे-च्छारूपे अन्तःकरणवृत्तिभेदे वैषयिकसुखस्य वस्तु-तोऽनिष्टत्वात् तथात्वम् “दशविधो महामोहः” सा०का० शब्दादिषु पञ्चसु दिव्यादिव्यतया दशविधेषुविषयेषु रञ्जनीयेषु राग आसक्तिः” त० कौ० उक्ते३ दशविधविषयरागे