| YouTube Channel

महामेदा (mahAmedA)

 
शब्दकल्पद्रुमः
Sanskrit
महामेदा,
स्त्री,
(मेदयतीति मिद + णिच् +घञ् टाप् महती मेदा ।) अष्टवर्गे प्रसिद्धौ-षधविशेषः
तत्पर्य्यायः वसुच्छिद्रा जीवनी३ पांशुरागिणी देवेष्टा सुरामेदा दिव्या७ देवमणिः देवगन्धा महाच्छिद्रा १०वृक्षार्हा ११ अस्याः गुणाः हिमत्वम् ।रुच्यत्वम् कफशुक्रवृद्धिकारित्वम् दाहास्र-पित्तक्षयवातज्वरनाशित्वञ्च इति राज-निर्घण्टः
*
अथ मेदमहामेदयोरुत्पत्ति-लक्षणनामगुणाः ।“महामेदाभिधः कन्दो मोरङ्गादौ प्रजायते ।महामेदा वनौमेदा स्यादित्युक्तं मुनीश्वरैः
शुक्लार्द्रकनिभः कन्दो लताजातः पाण्डुरः ।महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते
शुक्लकन्दो नखच्छेद्यो मेदो धातुरिव स्रवेत् ।यः मेदेति विज्ञेया जिज्ञासातत्परैर्जनैः
स्वल्पपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा ।महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः
मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफापहम् ।बृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत्
”इति भावप्रकाशः