| YouTube Channel

महाभूतं (mahAbhUtaM)

 
शब्दकल्पद्रुमः
Sanskrit
महाभूतं,
क्ली,
(महत् भूतम् पञ्चतन्मात्रेभ्यःस्थौल्यादस्य तथात्वम् ।) पृथिव्यादिपञ्चभूतम् ।यथा, --“महाभूतानि पञ्चैव खानिलाग्न्यम्बुभूमिभिः
”इति शब्दचन्द्रिका
(अस्य विषय उत्पत्तिश्च यथा, --“तन्मात्रेभ्यो वियद्वायुवह्निवायुवसुन्धराः ।एतानि पञ्च जायन्ते महाभूतानि तत्क्रमात्
”एकोत्तरपरिवृद्ध्या वियदादयो जायन्त इत्यर्थः ।तद्यथा शब्दतन्मात्राच्छब्दगुणं वियज्जायते ।शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छब्दस्पर्श-गुणो वायुर्ज्जायते शब्दतन्मात्रस्पर्शतन्मात्र-सहितात् रूपतन्मात्राच्छब्दस्पर्शरूपगुणो वह्नि-र्ज्जायते शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्र-सहिताद्रसतन्मात्राच्छब्दस्पर्शरूपरसगुणं वारि-जायते शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्र-रसन्मात्रसहिताद्गन्धतन्मात्राच्छब्दस्पर्शरूपरस-गन्धगुणा वसुन्धरा जायते ।” इति भावप्रकाशस्यपूर्व्वखण्डे प्रथमे भागे
“मातृजादयोऽप्यस्यमहाभूतविकारा एव तत्रास्याकाशात्मकं शब्दःश्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च वाय्वात्मकंस्पर्शः स्पर्शनञ्च रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्चशारीर्य्यः अग्न्यात्मकं रूपं दर्शनं प्रकाशःपक्तिरौष्ण्यञ्च अबात्मकं रसो रसनं शैत्यंमार्द्दवः स्नेहः क्लेदश्च पृथिव्यात्मको गन्धः घ्राणंगौरवं स्थैर्य्यं मूर्त्तिश्च ।” इति चरके शारीरस्थानेचतुर्थेऽध्याये
सिद्धादयः महाप्राणिनः यथा, महाभारते ११९ ४८ ।“रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः
”)