| YouTube Channel

महाप्रस्थानगमनं (mahAprasthAnagamanaM)

 
शब्दकल्पद्रुमः
Sanskrit
महाप्रस्थानगमनं,
क्ली,
(प्रस्थीयते अस्मिन्निति ।प्र + स्था + ल्युट् महत् प्रस्थानं महापथः ।तत्र गमनम् ।) महापथगमनम् तत्तु मरणो-द्देशेन हिमालयपर्य्यन्तप्रयाणम् तच्च कलौनिषिद्धम् यथा, बृहन्नारदीये ।“समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।द्विजानामसवर्णासु कन्यासूपयमस्तथा
देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः ।मांसादनं तथा श्राद्धे वानप्रस्थाश्रमन्तथा
दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य ।दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ
महाप्रस्थानगमनं गोमेधञ्च तथा मखम् ।इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्म्मनी-षिणः
”इत्युद्वाहतत्त्वम्