| YouTube Channel

महापीलुः (mahApIluH)

 
शब्दकल्पद्रुमः
Sanskrit
महापीलुः,
पुं,
(पीलति प्रतिष्टभते विषपित्तादिक-मिति पील + “मृगय्वादयश्च ।” उणा० ३८ ।इति कुः ततो महान् पीलुरिति कर्म्मधारयः ।)पीलुवृक्षविशेषः तत्पर्य्यायः बृहत्पीलुः २महाफलः राजपीलुः महावृक्षः ५मधुपीलुः अस्य फलगुणाः मधुरत्वम् ।वृष्यत्वम् विषनाशित्वम् पित्तप्रशमनत्वम् ।रुच्यत्वम् आमघ्नत्वम् दीपनीयकत्वञ्च ।इति राजनिर्घण्टः