| YouTube Channel

महापिण्डीतकः (mahApiNDItakaH)

 
शब्दकल्पद्रुमः
Sanskrit
महापिण्डीतकः,
पुं,
(पिण्डीं तनोतीति तन् + डःसंज्ञार्थे कन् ततः महांश्चासौ पिण्डीतक-श्चेति पिण्डाकारफलत्वादस्य तथात्वम् ।)कृष्णवर्णमहामदनवृक्षः तत्पर्य्यायः वाराहः२ अस्य गुणाः श्रेष्ठत्वम् कटुतिक्तरसा-न्वितत्वम् छर्द्दनत्वम् कफहृद्रोगपक्वामाशय-शोधनत्वञ्च इति राजनिर्घण्टः