| YouTube Channel

महापारेवतं (mahApArevataM)

 
शब्दकल्पद्रुमः
Sanskrit
महापारेवतं,
क्ली,
(महच्च तत् पारेवतञ्चेति ।)फलवृक्षविशेषः वडा पारेवत इति हिन्दीभाषा
तत्पर्य्यायः स्वर्णपारेवतम् साम्रा-णिजम् खारिकम् रक्तरैवतकम् बृहत्-पारेवतम् द्वीपजम् द्बीपखर्ज्जूरम् ।अस्य गुणाः मधुरत्वम् बलकारित्वम् ।पुष्टिवर्द्धनत्वम् वृष्यत्वम् मूर्च्छाभ्रमघ्नत्वम् ।पारेवतादधिकगुणत्वञ्च इति राजनिर्घण्टः